SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ OSLO साधूनां गर्हणा धर्मोन्मुखानां विघ्नकारिता । मधु-मांसाविरतानामविरत्यभिवर्णनम् ॥१०३॥ . विरताविरतानां चान्तरायकरणं मुहुः । अचारित्रगुणाख्यानं तथा चारित्रदूषणम् ॥ १०४ ॥ कषाय-नोकषायाणामन्यस्थानामुदीरणम् । चारित्रमोहनीयस्य सामान्येनाऽऽश्रवा अमी ॥१०५॥ पञ्चेन्द्रियप्राणिवधो बह्वारम्भ-परिग्रहौ । निरनुग्रहता मांसभोजनं स्थिरवैरता ॥ १०६ ॥ रौद्रध्यानं मिथ्यात्वा-ऽनन्तानुबन्धिकषायते । कृष्ण-नील-कपोताश्च लेश्या अनृतभाषणम् ॥ १०७ ॥ परद्रव्यापहरणं मुहुर्मैथुनसेवनम् । अवशेन्द्रियता चेति नरकायुष आश्रवाः॥ १०८॥ उन्मार्गदेशना मार्गप्रणाशो गूढचित्तता । आर्तध्यानं सशल्यत्वं मायाऽऽरम्भ-परिग्रहौ ॥१०९॥ शीलवते सातिचारे नील-कापोतलेश्यता । अप्रत्याख्यानकषायास्तिर्यगायुष आश्रवाः॥११०॥ अल्पो परिग्रहा-ऽऽरम्भौ सहजे मार्दवा-ऽऽर्जवे । कापोत-पीतलेश्यत्वं धर्मध्यानानुरागिता ॥ १११ ॥ प्रत्याख्यानकषायत्वं परिणामश्च मध्यमः । संविभागविधायित्वं देवता-गुरुपूजनम् ।। ११२ ॥ पूर्वालाप-प्रियालापौ सुखप्रज्ञापनीयता । लोकयात्रासु माध्यस्थ्यं मानुषायुष आश्रवाः ॥ ११३ ॥ सरागसंयमो देशसंयमोऽकामनिर्जरा । कल्याणमित्रसम्पर्को धर्मश्रवणशीलता ॥ ११४ ॥ पात्रे दानं तपः श्रद्धा रत्नत्रयाविराधना । मृत्युकाले परीणामो लेश्ययोः पद्म-पीतयोः ॥ ११५ ॥ बालतपो-ऽग्नि-तोयादिसाधनोल्लम्बनानि च । अव्यक्तसामायिकता देवस्याऽऽयुष आश्रवाः॥११६॥ उन्मुखाः तत्पराः। २ अन्यचित्तस्थितानाम्। ३ धर्ममार्गस्य नाशः। * °ख्यानाः क संवृ०॥ ४ विवेकरहितं तपः-अज्ञानतपः । S40 S405AXOSTOSOS406 Jain Education in OH For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy