SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते महाकाव्ये ॥३३९॥ Jain Education In दुःख-शोक-वधास्तापा - Sऽक्रन्दने परिदेवनम् । स्वान्योभयस्थाः स्युरसद्वेद्यस्यामी इहाऽऽश्रवाः ॥ ८९ ॥ वीतरागे श्रुते स धर्मे सर्वसुरेषु च । अवर्णवादिता तीव्रमिध्यात्वपरिणामिता ॥ ९० ॥ सर्वज्ञ-सिद्धि-देवापह्नवो धार्मिकदूषणम् । उन्मार्गदेशना ऽनर्थाग्रहोऽसंयत पूजनम् ॥ ९१ ॥ असमीक्षितकारित्वं गुर्वादिष्ववमानना । इत्यादयो दृष्टिमोहस्याऽऽश्रवाः परिकीर्तिताः ।। ९२ ।। कषायोदयतस्तत्र परिणामो य आत्मनः । चारित्रमोहनीयस्य स आश्रव उदीरितः ॥ ९३ ॥ उत्प्रासनं सकन्दर्पोपहासो हासशीलता । बहुप्रलापो दैन्योक्तिर्हासस्यामी स्युराश्रवाः ॥ ९४ ॥ देशादिदर्शनौत्सुक्यं चित्रे रमण-खेलने । परचितावर्जनं चेत्याश्रवाः कीर्त्तिता रतेः ॥ ९५ ॥ असूया पापशीलत्वं परेषां रतिनाशनम् । अकुशलप्रोत्साहनं चाऽरतेराश्रवा अमी ॥ ९६ ॥ स्वयं भयपरीणामः परेषामथ भोपनम् । त्रासनं निर्दयत्वं च भयं प्रत्याश्रवा अमी ॥ ९७ ॥ परशोकाविष्करणं स्वशोकोत्पाद- शोचने । रोदनादिप्रसक्तिश्च शोकस्यैते स्युराश्रवाः ॥ ९८ ॥ चतुर्वर्णस्य सङ्घस्य परिवाद - जुगुप्सने । सदाचारजुगुप्सा च जुगुप्सायाः स्युराश्रवाः ॥ ९९ ॥ ईर्ष्या-विषयगा च मृषावादोऽतिवक्रता । परदाररतासक्तिः स्त्रीवेदस्याऽऽश्रवा इमे ॥ स्वदारमात्र सन्तोषोनीर्ष्या मन्दकषायता । अवक्राचारशीलत्वं पुंवेदस्याऽऽश्रवा इति ॥ स्त्री-पुंसानङ्गसेवोग्राः कषायास्तीत्रकामता । पाखण्डस्त्रीव्रतभ्रंशः षण्ढवेदाश्रवा अमी ॥ १०२ ॥ १ सर्वज्ञस्य सिद्धेः देवानां च अपह्नवः-अपलापः । २ अधिकं हसनम् । ३ देशः प्रदेश :- भङ्गोपाङ्गानि इति । आकर्षणम् । ५ भयदर्शनम् । ६ परिवादः - निन्दा जुगुप्सा-घृणा । १०० ॥ १०१ ॥ ४ परवित्तस्य For Private & Personal Use Only तृतीयं पर्व सप्तमः सर्गः सुविधि स्वामि चरितम् । | ॥३३९॥ www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy