________________
अष्टकर्मोत्तरप्रकृत्याश्रवस्वरूपज्ञापिका सुविधिस्वामिदेशना
यदि शान्तस्वभावस्त्वं तत् कुतस्तप्वांश्चिरम् ? । अरोषणोऽसि यदि च रुषितः कर्मणां कथम् ? ॥७६॥ अविज्ञेयस्वरूपाय महयोऽपि महीयसे । सिद्धानन्तचतुष्काय तुभ्यं भगवते नमः ॥ ७७ ॥
विरचय्य स्तुतिमिति तूष्णीके सति वासवे । भगवान् सुविधिखामी विदधे देशनामिति ॥ ७८॥ अनन्तदुःखसम्भारनिधानं खल्वयं भवः । प्रभवश्वाऽऽस्रवस्तस्य विषस्येव महोरगः ॥७९॥ मनो-चाकायकर्माणि योगाः कर्म शुभा-ऽशुभम् । यदाश्रवन्ति जन्तूनामाश्रवास्तेन कीर्तिताः ॥८॥ मैत्र्यादिवासितं चेतः कर्म सूते शुभात्मकम् । कषाय-विषयाक्रान्तं वितनोत्यशुभं पुनः॥ ८१॥ शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः। विपरीतं पुनर्जेयमशुभार्जनहेतवे ॥८२॥ शरीरेण सुगुप्तेन शरीरी चिनुते शुभम् । सततारम्भिणा जन्तुघातकेनाशुभं पुनः॥८३ ॥ कषाया विषया योगाः प्रमादा-विरती तथा । मिथ्यात्वमार्त्त-रौद्रे चेत्यशुभं प्रति हेतवः ॥ ८४ ॥ यः कर्मपुद्गलादानहेतुः प्रोक्तः स आश्रवः । कर्माणि चाष्टधा ज्ञानावरणीयादिभेदतः ॥ ८५॥ ज्ञान-दर्शनयोस्तद्वत् तद्धेतूनां च ये किल । विन-निहव-पैशुन्या-ऽऽशातना-घात-मत्सराः॥८६॥
ते ज्ञान-दर्शनावारकर्महेतव आस्रवाः । देवपूजा गुरूपास्तिः पात्रदानं दया क्षमा ॥ ८७ ॥ ___ सरागसंयमो देशसंयमोऽकामनिर्जरा । शौचं बालतपश्चेति सद्वेद्यस्य स्युराश्रवाः॥ ८८॥
तपः कृतवान् । २ रोपयुक्तः। ३ महते। प्रभवः उत्पत्तिस्थानम् । ५ मिथ्यारहितम्-सत्यम् । * श्लोकोऽयं संवृ० नास्ति ॥ ६ ज्ञानहेतुषु ज्ञाने च विघ्नः, निहवः-अपलापः, पैशुन्यम्, आशातना, घातः, मत्सरः इत्येते ज्ञानावरणहेतवः । ठा आवारकम्-आवरणरूपम् ।
Jain Education
a MI
l
For Private & Personal use only
www.jainelibrary.org