SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते महाकाव्ये ॥३३८॥ Jain Education Inte विदधुर्वसुधारादिपञ्चकं च दिवौकसः । रत्नपीठं स्वामिपादस्थाने पुष्पन्नृपः पुनः ॥ ६२ ॥ एकाङ्गी निर्ममोsसङ्गः सहमानः परीषहान् । छद्मस्थो विजहाराथ चतुर्मासीं जगत्पतिः ॥ ६३ ॥ आजगाम प्रभुर्भूयः सहस्राम्रवणं वनम् । मोलुरतरुमूले चावतस्थे प्रतिमाधरः ॥ ६४ ॥ आरूढक्षपकश्रेणेरपूर्वकरणक्रमात् । ऊर्जशुक्ल तृतीयायां मूलेऽभूत् केवलं प्रभोः ॥ ६५ ॥ ततः समवसरणं व्यधीयत सुरासुरैः । पूर्वद्वारेण तत्राथ प्रविवेश जगद्गुरुः ॥ ६६ ॥ तत्र द्वादशकोदण्डशतोच्चं चैत्यपादपम् । प्रभुः प्रदक्षिणीचक्रे सर्वातिशयशोभितः ॥ ६७ ॥ 'तीर्थाय नमः' इत्युक्त्वाऽध्यास्त सिंहासनं प्रभुः । प्राङ्मुखो दिक्षु चान्यासु तद्रूपाणि व्यधुः सुराः ।। ६८ ।। यथास्थानमथान्येऽपि निषेदुरमरादयः । प्रणम्याथ प्रभुं शक्रः स्तोतुमेवं प्रचक्रमे ॥ ६९ ॥ वीतरागोऽसि चेद् रागः पाणिपादे कथं तव १ । कौटिल्यं चेत् त्वया मुक्तं किं केशाः कुटिलास्तव १ ॥ ७० ॥ प्रजानां यदि गोपस्त्वं दण्डहस्तोऽसि किं न हि १ । निःसङ्गो यदि वाऽसि त्वं तत्किं त्रैलोक्यनाथता ? ७१ यदि त्वं निर्ममस्तत् किं सर्वत्र करुणापरः १ । त्यक्तालङ्करणश्चेत् त्वं तत् किं रत्नत्रयप्रियः १ ।। ७२ । विश्वस्याप्यनुकूलश्चेत् तत् किं मिथ्यादृशां द्विषन् ? । स्वभावसरलश्चेत् त्वं छद्मस्थोऽस्थाः कथं पुरा ? ॥ ७३ ॥ दयावान् यदि वाऽसि त्वं न्यग्रहीर्मन्मथं कथम् ? । यदि च त्वं गतभयो भवाद् मीतोऽसि तत् कथम् १ ॥७४॥ यद्युपेक्षापरोऽसि त्वं तत् किं विश्वोपकारकः ? । अँदीप्तो यदि वाऽसि त्वं दीसभामण्डलः कथम् ? ॥७५॥ पुरः संवृ० ॥ ३ अदीसः अक्रोधः । १ मालूरः बिल्ववृक्षः । * तलमू° सं० ॥ २ ऊर्जः कार्तिकः । ४ दीप्तम् - सुशोभितम् । For Private & Personal Use Only तृतीयं पर्व सप्तमः सर्गः सुविधि स्वामि चरितम् । ॥ ३३८ ॥ www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy