SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते ॥१८॥ द्वितीयं पर्व प्रथमः सर्गः अजितनाथ चरितम् । इति चाचिन्तयमहं, भ्रान्तोऽन्यत्र किमागमम् । इदं किंवा परावृत्तमिन्द्रजालमथेदृशम् ॥११२॥ यत् क्व पत्रलता साऽर्ककरप्रसरवारणी? । क्व वाऽसावातपस्सैकातपत्रत्वमपत्रता ॥ ११३ ॥ क्क सा कुञ्जेषु विश्रान्तरमणीरमणीयता ? । निद्रायमाणाजगरदारुणत्वमिदं क्व च ॥ ११४ ॥ कैलापिकलकण्ठादिमधुरालापिता क्व सा? । विलोलकाकोलकुलरोलॅव्याकुलता क्व च ? ॥ ११५ ॥ प्रलम्बलम्बमानाशिम्बीबहलता व सा? । क्व चैषा शुष्कशाखाग्रदोलायितभुजङ्गता ॥ ११६॥ क्व च सा कुसुमामोदसुरभीकृतदिकता। चिल्ली-कपोत-ध्वाङ्गादिविष्टादुर्गन्धता व च? ॥११७॥ प्रसूनरसनिस्सन्दस्तीमितावनिता व सा। क ज्वलद्धाष्ट्रसिकतातुल्यसन्तापपांसुता ॥ ११८॥ फलप्राग्भारभारावनम्रपादपता क्व सा? । मूलोपदेहिकाग्रस्तपतितद्रुमता व च?॥ ११९ ॥ अनेकवल्लीवलयलटभा वृतयः क्व ताः । क्व चैताः सर्पनिमुक्तास्तोकनिर्मोकदारुणाः ॥ १२० ॥ तले तरूणां प्रचुरः, प्रसूनप्रकरः क्व सः? । उद्भूतस्थलशृङ्गाटकण्टका उत्कटाः क्व च ॥ १२१ ॥ मन्ये यथाऽयमारामो, जज्ञे सम्प्रत्यतादृशः। तथा संसारिणः सर्वे, संसारस्थितिरीदृशी ॥ १२२ ॥ सौन्दर्येण स्वकीयेन, य एव मदनायते । यस्तो रोगेण घोरेण, कङ्कालति स एव हि ॥ १२३ ॥ य एव छेकतामाजा, वाचा वाचस्पतीयते । कालान्मुहुःस्खलजिह्वः, सोऽपि मुकायतेतराम् ॥ १२४॥ चारुचङ्क्रमणशक्त्या, यो जात्यतुरगायते । वातादिभनगमनः, पङ्गयते स एव हि ॥ १२५॥ पत्रराहित्यम् । २ मयूरकोकिलादि । ३ काकपक्षिविशेषः । ४ कठोरध्वनिः । ५ काकः । ६ आर्द्रभूमिता । ७ कीटविशेषः । मनोहराः। ९ सर्पकचकः । १० कण्टकवृक्षविशेषः। ११ अस्थिपञ्जरशेषवपुरिव भवति। १२ चातुर्ययुक्तया । १३ वातरोगनष्टपादः । पूर्वभवचरिते प्रथमो विमलवाहनभवः। ॥१८॥ टू Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy