SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ MOREOSECORRCESSORSEASES दन्तांशुज्योत्स्नया व्योमतलं धवलयन्नथ । एवमाचार्यचन्द्रोऽपि, सप्रसादमभाषत ।। ९७॥ संसारे धीमतां सर्वमपि वैराग्यकारणम् । विशेषतस्तु वैराग्यहेतुः कस्यापि कश्चन ॥ ९८॥ अहं हि गृहवासस्थः, पुरा दिग्जयहेतवे । हस्त्यश्व-रथ पादातचमूभिः सहितोऽचलम् ॥ ९९ ॥ मार्गान्तराले सततस्निग्धच्छायामनोरमम् । जगद्धमणखिन्नाया, विश्रामौक इव श्रियः ॥ १० ॥ नृत्यन्तमिव कङ्केल्लिलोलपल्लवपाणिभिः । हसन्तमिव विहसन्मल्लिकास्तवकोत्करैः ॥ १०१॥ रोमाश्चितमिवोदश्चत्कदम्बकुसुमोच्चयैः । वीक्ष्यमाणमिव मेरकेतकीकुसुमेक्षणैः ॥ १०२ ॥ सन्तापिनस्तपनांशून , दुरादापततोऽपि हि । साल-तालगुमभुजैनिधन्तमिवोच्छ्रितः॥१०३॥ दत्तगुप्यद्गुरुमिवाऽध्वगार्थ वटपादपैः । सजीकृतपाद्यमिव, सारणीभिः पदे पदे ॥ १०४ ॥ शृङलिताम्भोदमिव, महद्भिररघट्टकैः । गुञ्जन्मधुकरारावैराह्वयन्तमिवाऽध्वगान् ॥ १०५॥ तमाल-ताल-हिन्ताल-चन्दनैर्मध्यवर्तिभिः। दिवाकरकरत्रासात , तिमिरैरिव सेवितम् ॥१०६॥ चूत-चम्पक-पुन्नाग-नाग-केसरकेसरैः। जगत्येकातपत्रत्वं, तन्वानं सौरभैश्रियः ॥ १०७॥ ताम्बूली-लबली-द्राक्षावितानैरतिसन्ततैः । पान्थयनां विना यत्नं, तन्वन्तं रतिमण्डपान् ॥ १०८॥ भद्रशालमिवाऽऽयातं, मेरुशैलतलावनेः । भृशाभिराममाराम, तदाऽद्राक्षमहं व्रजन् ॥ १०९॥ चिरेण दिग्जयं कृत्वा, निवृत्तः पुनरप्यहम् । आरामस्याऽन्तिके तस्य, सह चम्बा समागमम् ॥ ११ ॥ उत्तीर्य वाहनेभ्योऽहं, कौतुकात् सपरिच्छदः । तदन्तः प्रविशन्नन्यादृक्षमद्राक्षमग्रतः ॥ १११॥ विश्रामस्थानम् । २ उन्नतैः । ३ क्षुद्रनदीभिः। ४ सुगन्धलक्ष्म्याः । Jain Education Internator For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy