SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते महाकाव्ये ॥३३६॥ एकावलीप्रभृतिभिः स तपोभिः सुदुस्तपैः । अर्हद्भक्त्यादिभिश्वोच्चैस्तीर्थनाम निर्ममे ॥१२॥ तृतीयं पर्व एवंविधैरनुष्ठानैर्निजायुरतिवाह्य सः । विमाने वैजयन्ताख्ये महर्द्धिरमरोऽभवत् ॥१३॥ सप्तमः इतश्च जम्बूद्वीपे सिन् भरतार्धे तु दक्षिणे । काकन्दीत्यस्ति नगरी श्रीविशेषगरीयसी ॥१४॥ सर्गः भान्ति तत्रौकसां मुक्तावैचूलाः पुष्पधन्वनः । मनखिनीवशीकारजपमाल इवाऽमलाः ॥१५॥ सुविधिः तत्राऽऽयत सङ्गीतगीतमुच्चैश्चतुर्विधम् । प्रपद्यते खेचरीणां गतेः स्तम्भनमन्त्रताम् ॥१६॥ खामिउद्दण्डपुण्डरीकाढ्या विशदापा जलाशयाः । व्यक्तोडुशरदभ्रां द्यामनुकुर्वन्ति तत्र च ॥१७॥ चरितम् । दूरादप्यभिगम्यन्ते नीयन्ते पाद्यपात्रताम् । प्रीण्यन्ते चोचितैरथै स्तस्यां गुरुवदर्थिनः ॥१८॥ सुग्रीवो नाम समभृद् ग्रैवेयंकमिवावनेः । अवेयकामर इव श्रिया तत्र महीपतिः॥१९॥ तस्याऽऽज्ञा नगरा-ऽरण्य-सागरेषु गिरिष्वपि । सिद्धमत्रायुधमिव न कापि प्रत्यहँन्यत ॥ २० ॥ १ एकावलीनामकहारवत् यन्त्र तपसि उपवासादिभिः सूक्ष्मता स्थूलता अतिस्थूलता क्रियते तद् 'एकावली'तपः । एवं रखा| वली-मुक्तावल्यादीनि तपांसि बोध्यानि । २ अतिवाद्य समाप्य समाप्तं कृत्वा । ३ अवचूला ध्वजसंलमा अधोमुखा गुच्छाः, | गृहाणां ध्वजे संबद्धाः मुक्कामयाः अधोमुखा मुक्तागुच्छा इति भावः । ४ आयतने-गृहे गायक-गायिकादिभिः संगीतं यद् गीतम् |गानम् । चतुर्विधता च गानस्य-नर्तनं १ अभिनयः २ वादनं ३ मालापादिभिः गानं च इति । ५ऊवों दण्डः यस्य तद् उद्दण्डंदा । तादृशं पुण्डरीकम्-कमलम् तैः आब्या:-पूर्णाः। ६ विशदाः आपः येषु तादृशाः जलाशयाः। ७ यत्र शरदि आकाशे उडूनि तारकाणि व्यक्तानि । जलाशयाः गगनरूपार, पुण्डरीकाणि च तारकरूपाणि। ८ यत्र दातारः याचकानां सम्मुखं गच्छन्ति । || गैवेयकम्-ग्रीवायाः आभरणम् । १० न क्वापि स्खलिता। Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy