SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Jain Education In सप्तमः सर्गः । श्रीसुविधिनाथचरित्रम् | वन्दे श्रीपुष्पदन्तस्य पुष्पदामेव निर्मलम् । जगत्रयशिरोवाह्यं शासनं पापनाशनम् ॥ १ ॥ नवमस्यार्हतस्तस्यानवमं चरितं प्रभोः । तत्प्रभावात् प्रभविष्णुधिषणः कीर्तयाम्यदः ॥ २ ॥ पुष्करवरद्वीपार्धे प्राग्विदेहेषु पुष्कले । विजये पुष्कलावत्यामस्ति पूः पुण्डरीकिणी ॥ ३ ॥ तस्यां पुर्यामभूनाम्ना महापद्मो महीपतिः । महाहिमाद्रौ गम्भीरो महापद्म इव हृदः ॥ ४ ॥ आजन्म स्वीकृतस्तस्य शैशवे यौवनेऽपि च । धर्मो वपुः श्रिया सार्धमवर्धत यथोत्तरम् ॥ ५ ॥ स विरत्या विहीनेन मुहूर्तेनाप्यदूयत । धनेन वृद्धिहीनेन वृद्ध्याजीव इवान्वहम् ॥ ६ ॥ धर्मकृत्यानि कुर्वाणो राज्यकृत्यानि सोऽकरोत् । वारिपाणमिवाध्वन्यस्तरन्नध्वतरङ्गिणीम् ॥ ७ ॥ सम्यक् श्रावकधर्मं स निजं कुलमिवामलम् । सुचिरं पालयामास प्रमादरहितः सुधीः ॥ ८ ॥ प्रायः सन्तोषनिष्ठोऽपि न धर्मे सन्तुतोष सः । स्तोकधर्मानपि परान् मेने चाभ्यधिकान् स्वतः ॥ ९॥ दिव्यास्त्रमिव युत्पारे भवपारयियासया । परिव्रज्यां स जग्राह जगन्नन्दगुरोः पुरः ॥ १० ॥ निर्व्यूढः श्रावकधर्मे दृढं सोऽपालयद् व्रतम् । कृतसंलेखन इवानशनं मारणान्तिकम् ॥ ११ ॥ १ अवमम् अधमम्, अनवमम् उत्तमम् । २ वृद्धया जीवः भाषायाम् 'व्याजखाऊ' । ३ जलपानम् अध्वन्यः प्रवासी । ४ अन्यान् जनान् अल्पधर्मयुक्तान् अपि स्वतः अधिकान् उत्तमान् अमन्यत । ५ हनुमनाः । ६ संलेखना जीविताव सानप्राये समये क्रियमाणः संस्तारकः, मारणान्तिकम् मरणसामीप्यम् तत्र क्रियमाणं तपः । * मर° संवृ० मो० ॥ For Private & Personal Use Only सुविधिजिनपूर्वभव सम्बन्धः www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy