SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते महाकाव्ये ॥३३५ ॥ Jain Education Intern शताशीतिः सावधीनां मनः पर्ययिणां तथा । तथा दश सहस्राणि केवलज्ञानधारिणाम् ॥ ११३ ॥ जातवैक्रियलब्धीनां सहस्राणि चतुर्दश । वादलब्धिमतां सप्तसहस्री षट् शतानि च ॥ ११४ ॥ साधे लक्षे श्रावकाणां श्राविकालक्षपञ्चकम् । सहसैर्नवभिर्न्यनं परिवारोऽभवत् प्रभोः ॥ ११५ ॥ पूर्वलक्षं त्रिमासोनं * चतुर्विंशाङ्गवर्जितम् । विहृत्य केवले स्वामी ययौ सम्मेतपर्वतम् ॥ ११६ ॥ समं मुनिसहस्रेण प्रपेदेऽनशनं प्रभुः । सुरासुरैः सेव्यमानो मासं चास्थात् तथास्थितः ॥ ११७ ॥ सर्वयोगनिरोधेन निष्कम्पं ध्यानमास्थितः । तत्क्षणं क्षीणभवोपग्राहिकर्मचतुष्टयः ॥ ११८ ॥ नस्य कृष्णसप्तम्यां श्रवणस्थे निशाकरे । समं तैर्मुनिभिः स्वामी जगाम परमं पदम् ॥ ११९ ॥ कौमारे पूर्वलक्षे द्वे सार्धे राज्यस्थितौ पुनः । पूर्वलक्षाः षट् च सार्थाश्चतुर्विंशाङ्गसंयुताः ॥ १२० ॥ चतुर्विंशत्यङ्गहीनं पूर्वलक्षं पुनर्वते । इत्यायुः पूर्वलक्षाणि दश चन्द्रप्रभप्रभोः ॥ १२१ ॥ सुपार्श्वखामि निर्वार्णाच्छ्रीचन्द्रप्रभनिर्वृतिः । शतेष्वर्णवकोटीनां व्यतीतेषु नवस्वभूत् ॥ १२२ ॥ इति मोक्षमुपेयुषः प्रभोर्व्रतिनां चैव शरीरसंस्क्रियाम् । विधिवद् विदधुः सुरेश्वराः, पुनरेव त्रिदिवं प्रपेदिरे ॥ १२३ ॥ ॥ इत्याचार्य श्री हेमचन्द्रविरचिते त्रिषष्टिशलाका पुरुषचरिते महाकाव्ये तृतीये पर्वणि चन्द्रप्रभवामिचरितवर्णनो नाम षष्ठः सर्गः ॥ * नं केवलात् प्रभृति प्रभुः । विहृत्य मोक्षकालज्ञो ययौ संवृ० सङ्घ० ॥ १ योगाः व्यापाराः सर्वक्रियानिरोधेन । २ नभस्यः- भाद्रपदमासः । + णाश्चन्द्रप्रभस्य निर्वृतिः संवृ० ॥ ६°रसत्क्रिया सं० ॥ For Private & Personal Use Only तृतीयं पर्व षष्ठः सर्गः चन्द्रप्रभस्वामि चरितम् । ॥३३५॥ www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy