________________
स्वतःसुगन्धयो गन्ध-धूप-पुष्प-स्रगादयः। यत्सङ्गाद् यान्ति दौर्गन्ध्यं सोऽपि कायः शुचीयते ? ॥१०॥ अभ्यक्तोऽपि विलिप्तोऽपि धौतोऽपि घटकोटिभिः। न याति शुचितां कायः शुण्डाघेट इवाऽशुचिः॥१०॥ मृजला-ऽनल-वातां स्नानैः शौचं वदन्ति ये । गतानुगतिकैस्तैस्तु विहितं तुषकण्डनम् ॥१०२॥ तदनेन शरीरेण कार्य मोक्षफलं तपः । क्षाराब्धे रत्नवद् धीमानसारात् सारमुद्धरेत् ॥ १०३॥
धर्मदेशनया भर्तुरनया च शरीरिणः । बहवः प्रत्यबुध्यन्त प्रावश्च सहस्रशः॥ १०४॥ भर्तस्त्रिनवतिर्दत्तादयो गणभृतोऽभवन् । उत्पादादित्रिपद्या ते द्वादशाङ्गीमसूत्रयन् ॥ १०५॥ देशनान्ते प्रभोः पादपीठस्थो गणभृदूरः । विदधे देशनां दत्तो दत्तबोधः शरीरिणाम् ॥१०६ ॥ तस्यापि देशनाप्रान्ते खं खं स्थानं सुरादयः । जग्मुर्नागरयुवानो वीतसङ्गीतका इव ॥ १०७ ॥
तत्तीर्थभृर्हरिद् यक्षो विजयो हंसवाहनः । दधानो दक्षिणे चक्रं भुजे वामे तु मुद्गरम् ॥ १०८॥ मरालयाना पीताङ्गी भृकुटी नाम देव्यपि । दधती दक्षिणी वाहू खङ्ग-मुद्गरधारिणौ ॥ १०९॥ वामौ फलक-परशुलाञ्छितौ बिभ्रती भुजौ । तदा भगवतोऽभूतामुभे शासनदेवते ॥ ११०॥
॥ त्रिभिर्विशेषकम् ॥ अमुक्तसन्निधिस्ताभ्यां सर्वातिशयभाजनम् । व्योमेव चन्द्रो व्यहरत पृथ्वीं चन्द्रप्रभप्रभुः॥१११॥ सार्धा द्विलक्षी साधूनां साध्वीलक्षत्रयी पुनः । सहस्राशीतिसहिता द्वे सहस्रे तु पूर्विणाम् ॥११२॥ |
शुचिः इव दृश्यते । २ तैलेन अभ्यक्तः । ३ मद्यघटः। ४ अंशवः किरणाः तैः सूर्यस्नानम् । ५ तुषकण्डनम्-भाषायाम् | 'फोफां खांडवा'। ६ क्षारात् समुद्रात् । ७ समाप्तसंगीतश्रवणाः। ८ हंसवाहना। *प्रभःप्र संवृ०॥ सार्धद्वि संबृ०॥
चन्द्रप्रभजिन
यक्षयक्षिण्यौ
चन्द्रप्रभपरिवारः
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org,