SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ CA तृतीयं पर्व षष्ठः त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सगे: चन्द्रप्रभ स्वामिचरितम् ॥३३४॥ इति स्तुत्वा सुनांशीरे स्थिते सति जगद्गुरुः । प्रारेभे देशनामेवं गिरा स्तनितधीरया ॥ ८९॥ अनन्तक्लेशकल्लोलनिलयो भवसागरः । तिर्यगूर्द्धमधो जन्तून् क्षिपत्येष प्रतिक्षणम् ॥ ९०॥ एक निबन्धनं तस्य क्रियते प्राणिभी रतिः। अशुचौ कृमिभिरिव यदत्रापि शरीरके ॥ ९१ ॥ रसा-ऽसृग-मांस-मेदो-ऽस्थि-मज-शुक्रा-ऽत्र-वर्चसाम् । अशुचीनां पदं कायः शुचित्वं तस्य तत् कुतः॥९२॥5 नवस्रोतःस्रवद्विरसनिःस्यन्दपिच्छिले । देहेऽपि शौचसङ्कल्पो महामोहविजृम्भितम् ॥ ९३ ॥ शुक्र-शोणितसम्भूतो मलनिःस्यन्दवर्द्धितः । गर्भ जरायुसञ्छन्नः शुचिः कायः कथं भवेत् १॥९४ ॥ मातृर्जग्धान्न-पानोत्थरसनाडीक्रमागतम् । पायं पायं विवृद्धः सन् शौचं मन्येत कस्तनोः ॥ ९५॥ दोषधातुमलाकीण कृमि गण्डूपदास्पदम् । रोगभोगिगणैर्जग्धं शरीरं को वदेच्छुचि ॥९६॥ सुस्वादन्यन्न-पानानि क्षीरेक्षुविकृती अपि । भुक्तानि यत्र विष्ठायै तच्छरीरं कथं शुचि?॥९७ ॥ विलेपनार्थमासक्तः सुगन्धिर्यक्षकर्दमः । मलीभवति यत्राऽऽशु क शौचं तत्र वर्मणि ॥९८॥ जग्धा सुगन्धि ताम्बूलं सुप्तो निश्युत्थितः प्रगे । जुगुप्सते वक्रगन्धं यत्र तत् किं वपुः शुचि॥९९॥ १ इन्द्रे । २ स्तनितं मेघगर्जितम् । ३ 'प्राणिभिः रतिः' इति पदविभागः । रतिः आसक्तिः। ४ असूग् रुधिरम् । अत्राणिभाषायाम्-'आंतरडां'। ५ विस्त्रम्-लोहितम् भाषायाम्-लोही। * महन्मो संवृ० सङ्घ० ॥ मलिनस्यन्द सङ्घ० ॥ ६ जग्धं भक्षितम् । ७ पायं पायम्-पीत्वा पीत्वा । स्तनौ सङ्घ०॥ ८ क्षीरविकृतिः इक्षुविकृतिश्च । एते द्वे विकृती अन्यासामपि घृतशर्करादिविकृतीनामुपलक्षणम् । ९ शरीरे। १० भक्षयित्वा। ११ प्रातःकाले । SAHRAICHURROSSOS चन्द्रप्रभजिनस्य देशना REERAL ॥३३४॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy