SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ SEARCESSORE सुरा-सुरेन्द्राः सद्योऽपि क्षेत्रे योजनमात्रके। चक्रुः समवसरणं देशनार्थ जगद्गुरोः॥ ७५॥ सुरैः सश्चार्यमाणानि स्वर्णाजानि नव क्रमात् । क्रमन्यासैः पुनानस्तत् प्रारद्वारा प्राविशत् प्रभुः ॥७६ ॥ तत्र चाष्टादशधनुःशतोचं चैत्यपादपम् । प्रभुः प्रदक्षिणीचक्रे पालयन्नहिती स्थितिम् ॥ ७७॥ तीर्थाय नम इत्युच्चैर्वाचमुच्चारयन् प्रभुः । रत्नसिंहासने तत्र न्यषदत पूर्वदिङ्मुखः॥ ७८ ॥ प्रविश्य च यथाद्वारं यथास्थानमवास्थित । चतुर्विधोऽपि श्रीसङ्घः ससुरा-ऽसुर-मानुषः ॥७९॥ पञ्चाङ्गस्पृष्टभूपृष्ठः प्रणम्य परमेश्वरम् । जम्मारिभक्तिरभसादारेमे स्तोतुमित्यथ ॥ ८॥ सुरा-ऽसुर-नरमूर्ध्नि धार्यमाणमिदं प्रभो!। शासनं ते विजयते त्रिलोकीचक्रवर्तिनः ॥ ८१॥ ज्ञानत्रयधरः पूर्व मनापर्ययभृत् ततः । केवली चाधुना दिष्ट्या दृष्टस्त्वमधिकाधिकम् ॥ ८२॥ तव ज्ञानमिदं नाथ ! केवलाभिधमुज्वलम् । विश्वोपकारकजीयाच्छाया मार्गतरोरिव ।। ८३ ॥ तावदेवान्धकाराणि न यावद् दिवसेश्वरः । मदान्धास्तावदेवेभा यावत्पश्चाननो न हि ॥ ८४ ॥ तावदेव हि दारिद्यं न यावत् कल्पपादपः । तावदेव पयोदौस्थ्यं न यावद् वार्षुकोऽम्बुदः॥८५॥ तावदेव हि सन्तापो न यावत् पूर्णचन्द्रमाः । कुबोधास्तावदेवेह न यावत् त्वं निरीक्ष्यसे ॥ ८६ ॥ दृश्यसे नित्यमपि यैः सेव्यसे च शरीरिभिः । ताननुमोदयामीश! सर्वदाऽपि |मद्वरः ॥८७ ॥ इदानीं त्वत्प्रसादेन त्वदर्शनफलं मम । सम्यक्त्वमुत्तममिदं भूयादाजन्म निश्चलम् ॥ ८८॥ क्रमाः-चरणाः, न्यासः-स्थापनम् । २ पूर्व दिशास्थितद्वारेण । ३ अर्हत्ताम्-अहंद्रावमिति । ४ जम्भारिः-इन्द्रः, रभसो वेगः। ५ वर्षणशीलः वार्षुकः। ६ मिथ्याज्ञानानि । ७ अविरतिमान्-व्रतप्रत्याख्यानत्यागादिधर्मरहितः प्रमद्वरः। ANGRECENGALAX SCUESS Jain Education Int ! For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy