SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ कपाटपृथुले तस्योःस्थलेऽनन्यमानसा । हंसीव गङ्गापुलिने रमा रेमे निरन्तरम् ॥ २२ ॥ तस्याऽऽसील्लक्ष्मणा नाम पत्नी सम्पूर्णलक्षणा । मुखलक्ष्म्याऽतिहारिण्या विजेत्री शशलक्ष्मणः ॥२३॥ लावण्यपूरमसमं सर्वाङ्गीणं दधत्यपि । पीयूषमेव साऽवर्षद् दृशापि च गिराऽपि च ॥ २४॥ सा स्थलाम्भोरुहाणीव विकचानि पदे पदे । पादाभ्यां रोपयामास विचरन्त्यतिमन्थरम् ॥ २५॥ तस्या भ्रुवोश्च गत्यां च कौटिल्यं न तु चेतसि । मध्यप्रदेशे तुच्छत्वं न पुनर्मतिसम्पदि ॥ २६ ॥ तस्या गुणचमूं सर्वामपि सर्वातिशायिनीम् । अलञ्चकार सेनानीरिव शीलगुणो महान् ॥ २७॥ ___ इतश्च वैजयन्तस्थः स जीवः पद्मभूपतेः । त्रयस्त्रिंशत्पयोराशिसङ्ख्यमायुरपूरयत् ॥ २८॥ च्युत्वा च लक्ष्मणादेव्याः कुक्षाववततार सः । चैत्रस्य कृष्णपश्चम्यामनुराधागते विधौ ॥ २९ ॥ तदानी लक्ष्मणादेवी तीर्थकृजन्मसूचकान् । चतुर्दश महाखानान् सुखसुप्ता निरक्षत ॥ ३०॥ तं गर्भ रत्नगर्भेव रत्नसर्वस्वमुज्ज्वलम् । सुखेन धारयामास लक्ष्मणादेव्यलक्षितम् ॥ ३१ ॥ पौषस्य कृष्णद्वादश्यामनुराधास्थिते विधौ । चन्द्राक्षं चन्द्रवर्णं च सुतरत्नमसूत सा ॥३२॥ तदा चाऽऽसनकम्पेन ज्ञात्वा जन्माष्टमार्हतः । सूतिकाकर्म चक्रुः षट्पञ्चाशद्दिकुमारिकाः॥३३॥ जन्मस्नात्रोत्सवचिकीरथ सौधर्मवासवः । अनैपीन्मेकशिरसि स्वामिनं सुमनोवृतः॥३४॥ अतिपाण्डुकम्बलायां शिलायां परमेश्वरम् । विधायाङ्के निषसाद रत्नसिंहासने हरिः ॥३५॥ अथाऽच्युतप्रभृतयस्त्रिषष्टिरपि वासवाः । स्वामिनं स्नपयामासुरानुपूर्योल्लसन्मुदः॥३६॥ १ कपाटवत् पृथुले-विस्तीर्णे । २ चन्दं या विजयते इति भावः । ३ विचरन्ती-चलन्ती। ४ देवैः परिवृतः। चन्द्रप्रभजिनजन्म त्रिषष्टि. ५७ - Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy