SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः। श्रीचन्द्रप्रभजिनचरित्रम् । चन्द्रप्रभजिनपूर्वभवसम्बन्धी वन्दे ध्वस्तमहामोहध्वान्तामानन्ददायिनीम् । चन्द्रप्रभामिव गिरं चन्द्रप्रभजिनप्रभोः ॥१॥ चरितं कीर्तयिष्यामि चन्द्रप्रभजिनेशितुः । भव्यानां भविनां मोहहिमान्यर्कातपोपमम् ॥२॥ धातकीखण्डद्वीपस्य प्राग्विदेहस्य मण्डने । विजये मङ्गलावत्यामस्ति पू रत्नसञ्चया ॥३॥ पद्मो राजाऽभवत् तस्यां पद्मायाः पद्मवद् गृहम् । भोगावत्यां भोगिराज इवोर्जितपराक्रमः॥४॥ सेव्यमानोऽपि गन्धर्वैर्दिव्यसङ्गीतकारिभिः । अत्यैप्सरोभिर्वारस्त्रीजनैश्च परिवारितः॥५॥ दिव्याङ्गरागनेपथ्यदुकूलैश्च मनोरमैः । विभूष्यमाणसर्वाङ्गश्रीविशेषोऽपि सर्वदा ॥६॥ भूमिपालैः पाल्यमानशासनोऽपि दिवानिशम् । नित्यमक्षीणकोशोऽपि सदा सुस्थप्रजोऽपि हि ॥७॥ सर्वथा दुःखलेशस्याप्यनास्पंदतया स्थितः । संसारवासवैराग्यं स भेजे तत्त्वविद्वरः ॥८॥ चतुर्भिः कलापकम् । भवस्य च्छेदनायाथ गिरेरिव पविं हरिः । अग्रहीत् स परिव्रज्यां युगन्धरगुरोः पुरः॥९॥ १ ध्वान्तम् तमः। २ महद् हिमम् हिमानी। ३ रत्नसञ्चया नाम पू:-नगरी। * सर्वास्वपि प्रतिषु पद्मो नामाऽभवत् इति पाठो वर्त्तते॥ ४ भोगावती नाम शेषनागनगरी। ५ अप्सरसम् अतिक्रान्ताभिः-अप्सरसोऽपि अधिकसुन्दराभिः ६ अङ्गरागः| अङ्गविलेपनम् । ७ दुःखलेशेन रहितोऽपि इत्यर्थः। Jain Education Inter For Private & Personal Use Only | www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy