SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte विदर्भेऽपि गणधरे देशनाविरते सति । नमस्कृत्य प्रभुं जग्मुः स्वं स्वं स्थानं सुरादयः ॥ १०९ ॥ तत्तीर्थजन्मा मातङ्गो नीलाङ्गो गजवाहनः । बिल्वर्धरं पाशधरं विभ्राणो दक्षिणौ करौ ॥ ११० ॥ दधद् वामौ च दोर्दण्डौ नकुला-ऽङ्कुशधारिणौ । सुपार्श्वखामिनः पार्श्वेऽभवच्छासनदेवता ॥ १११ ॥ तथोत्पन्ना शान्तादेवी स्वर्णरुग् गजवाहना । वरदं साक्षसूत्रं च विभ्राणा दक्षिणौ भुजौ ॥ ११२ ॥ सला-भदौ बाहू दधाना दक्षिणेतरौ । भर्तुः शासनदेव्यासीत् सदा सन्निधिवर्तिनी ॥ ११३ ॥ विजहार ततोऽन्यत्र स्वामी ग्राम- पुरादिषु । बोधयन् भव्यभविनः पङ्कजानीव भास्करः ॥ ११४ ॥ साधुत्रिलक्षी साध्वीनां सहत्रिंशत्सहस्रिका । चतुर्लक्षी पूर्विणां तु सहस्रौ त्रिंशदन्वितौ ॥ ११५ ॥ सहस्राणि नव पुनरवधिज्ञानधारिणाम् । सार्वैकनवतिशती मन:पर्ययशालिनाम् ॥ ११६ ॥ एकादश सहस्राणि केवलज्ञानिनां पुनः । वैक्रियलब्धिसहस्राः पञ्चदश त्रिशत्यपि ॥ ११७ ॥ अष्टौ च वादलब्धीनां सहस्राः सचतुःशताः । द्वे लक्षे सप्तपञ्चाशत् सहस्राः श्रावकाः पुनः ।। ११८ ॥ श्राविकाणां पश्ञ्चलक्षी सहस्रैः सप्तभिर्वियुक् । परिवारेऽभवद् भर्तुः पृथ्वीं विहरतः सतः ॥ ११९ ॥ आ केवलान्भवमास्या विंशत्यया च वर्जिते । पूर्वलक्षे गते स्वामी गत्वा सम्मेतपर्वतम् ॥ १२० ॥ जगत्स्वामी समं तत्र मुनीनां पञ्चभिः शतैः । तपः प्रपेदेऽनशनं सेव्यमानः सुरासुरैः ॥ १२१ ॥ युग्मम् ॥ मासान्ते फाल्गुने कृष्णसप्तम्यां मूलगे विधौ । समं तैर्मुनिभिः खामी जगाम पदमव्ययम् ॥ १२२ ॥ १ करयोः विशेषणम् । २ सुवर्णकान्तिः । ३ अक्षसूत्रेण सहितम् । ४ भव्याः योग्याः, भविनः प्राणिनः । ५] वियुक् रहिता । ६ चन्द्रे मूलनक्षत्रं गते । For Private & Personal Use Only सुपार्श्वजिनयक्षयक्षिण्यौ सुपार्श्वजिनपरिवार: www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy