________________
त्रिषष्टिशलाका
पुरुषचरिते महाकाव्ये
॥३२९ ॥
Jain Education Inter
यो देह-धन-बन्धुभ्यो भिन्नमात्मानमीक्षते । क्व शोकशङ्कुना तस्य हन्ताऽऽतङ्कः प्रतन्यते १ ।। ९५ ।। इान्यत्वं भवेद् भेदः स वैलक्षण्यलक्षणः । आत्म- देहादिभावानां साक्षादेव प्रतीयते ॥ ९६ ॥ देहाद्या इन्द्रियग्राह्या आत्मानुभवगोचरः । तदेतेषामनन्यत्वं कथं नामोपपद्यते १ ।। ९७ ।।
आत्म- देहादिभावानां यद्यन्यत्वं स्फुटं ननु । ततो देहप्रहारादौ कथमात्मा प्रपीड्यते १ ॥ ९८ ॥ सत्यं येषां शरीरादौ भेदबुद्धिर्न विद्यते । तेषां देहप्रहारादीवात्मपीडोपजायते ।। ९९ ।। ये तु देहात्मनोर्भेदं सम्यगेव प्रपेदिरे । तेषां देहप्रहारादावपि नाऽऽत्मा प्रपीड्यते ॥ १०० ॥ 'भेदं विद्वान् न पीडयेत पितृदुःखेऽप्युपस्थिते । आत्मीयत्वाभिमानेन भृत्यदुःखेऽपि मुझति ॥ १०१ ॥ अस्वत्वेन गृहीतः सन् पुत्रोऽपि पर एव हि । स्वकीयत्वेन भृत्योऽपि स्वपुत्रादतिरिच्यते ॥ १०२ ॥ सम्बन्धानात्मनो जन्तुर्यावतः कुरुते प्रियान् । तावन्तो हृदये तस्य जायन्ते शोकशङ्कवः ॥ १०३ ॥ सर्वमन्यदिदं तस्माजानीयात् पटुधीर्जनः । कस्यापि हि विनाशात् तन्न मुह्येत् तच्चवर्त्मनि ॥ १०४ ॥ अस्यन् ममत्वमृल्लेपं तुम्बीफलमिवाचिरात् । भवं तरति शुद्धात्मा परिव्रज्याधरो नरः ।। १०५ ।।
एवं च देशनां श्रुत्वाऽबुध्यन्त बहवो जनाः । प्रव्रज्यां जगृहु: केऽपि श्रावकत्वमथापरे ।। १०६ ॥ विदर्भाद्या गणभृतः पञ्चनवतिरभूवन् । ते चक्रुर्द्वादशाङ्गीं च खामिवागनुसारतः ॥ १०७ ॥ स्वामिनो देशनान्ते च विदर्भी गणभृद्वरः । स्वाम्यङ्गिपीठाध्यासीनो विदधे धर्मदेशनाम् ॥ १०८ ॥ १ 'आत्मा अनुभवगोचरः' इति पदविभागः । * दावपि पी सङ्घ ॥ २ भेदस्य ज्ञाता । ३ अनिजत्वेन । 'जानन्नन्यत्र धी सङ्घ ॥ ४ ममत्वरूपं मृत्तिकालेपम् अस्यन्- दूरीकुर्वन् । ५ स्वामिवचनानुसारेण ।
For Private & Personal Use Only
तृतीयं पर्व
पञ्चमः
सर्गः
सुपार्श्वनाथचरितम् ।
॥३२९॥
www.jainelibrary.org.