________________
त्रिषष्टिशलाका
पुरुषचरिते
तृतीयं पर्व पञ्चमः
सर्गः सुपार्श्वनाथचरितम्
महाकाव्ये
॥३२८॥
मनःपर्ययमुत्पेदे तुर्य ज्ञानं जगत्पतेः । नारकाणामपि तदा सुखं क्षणमजायत ॥ ६६ ॥ पाटलीखण्डनगरे महेन्द्रनृपसद्मनि । द्वितीयेऽहि प्रभुश्चके परमानेन पारणम् ॥ ६७ ।। विदधुर्वसुधारादि देवाश्चाद्भुतपश्चकम् । रत्नपीठं महेन्द्रस्तु यत्र तस्थौ जगत्पतिः ॥ ६८॥ जयन् परीषहचमृता गिरिरिवाभवत् । निराकासः शरीरेऽपि समः स्वर्ण-तृणादिषु ॥ ६९॥ एकाकी मौननिरतो नित्यमेकान्तदत्तदृक् । विविधाभिग्रहरतोऽनासीनो निर्भयः स्थिरः॥७० ।। विविधाः प्रतिमाः कुर्वश्छद्मस्थो ध्यानमास्थितः । नव मासान् जगन्नाथो विजहार वसुन्धराम् ॥ ७१ ॥
॥त्रिभिर्विशेषकम् ॥ विहरंश्चाऽऽययौ भूयः सहस्राम्रवणं प्रभुः । शिरीषमूले षष्ठेन तत्रास्थात् प्रतिमाधरः ॥ ७२ ॥ द्वितीय शुक्लध्यानान्ते वर्तमानो जगद्गुरुः । संसारस्येव मर्माणि घातिकर्माण्यघातयत् ॥७३॥ फाल्गुनस्य कृष्णषष्ठ्यां विशाखास्थे निशाकरे । केवलज्ञानमुत्पेदे सुपार्श्वखामिनस्तदा ॥ ७४ ॥
सुरा-ऽसुरेन्द्राः सद्योऽपि समागत्य नियुक्तवत् । चक्रुः समवसरणं खामिनो देशनाकृते ॥ ७५ ॥ पूर्वद्वारेण तत्राथ मोक्षद्वारं जगद्गुरुः । प्रविवेश यथार्हस्तु द्वारैः सुर-नरादयः ॥ ७६ ॥ चतुर्धन्वशताकक्रोशोचं चैत्यपादपम् । तत्र प्रदक्षिणीचक्रे प्रभुर्भूकल्पपादपः ॥ ७७ ॥ 'तीर्थाय नम' इत्युक्त्वा तत्र सिंहासनोत्तमे । उपाविशजगन्नाथोऽतिशयरुपशोभितः॥ ७८ ॥ पृथ्वीदेव्या तदा खमे दृष्टं तादृग्महोरगम् । शक्रो विचक्रे भगवन्मूर्ध्नि च्छत्रमिवापरम् ॥ ७९ ॥
अनुपविशन्-जय तिष्ठन्नेव इत्यर्थः। २ नियुक्तः आज्ञानुसारी दास इव । ३ समक्सरणमित्यर्थः ।
॥३२८॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org,