SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ SAGARLASSANSACCESS धनुःशतद्वयोत्तुङ्गः सर्वलक्षणलक्षितः । प्रपेदे यौवनं स्वामी भूषणं रूपसम्पदः ॥ ५३॥ दाक्षिण्येन प्रभुः पित्रोनृपपुत्रीरुपायत । अपि त्रिलोकनाथानां मान्यं हि पितृशासनम् ॥ ५४॥ भोग्यं कर्म क्षपयितुं रमणीभिः समं विभुः। अरस्त भगवन्तो हि कर्मच्छेदाय तत्पराः॥५५॥ ततो गतेषु कौमारे पूर्वलक्षेषु पञ्चसु । अभ्यर्थ्याऽऽरोपितं पित्रा प्रभु भारमुद्दधे ॥ ५६ ॥ विंशत्यङ्गैः समधिकाः पूर्वलक्षाश्चतुर्दश । व्यतीयाय जगन्नाथः पृथिवीं परिपालयन् ॥ ५७॥ उपलक्ष्येव संसारविरक्तं स्वामिनो मनः । उपखाम्याययुर्ब्रह्मलोकाल्लोकान्तिकामराः॥५८॥ न बोध्यसे खयम्बुद्धः खभत्या स्मार्यसे पुनः। तीर्थं प्रवर्तय स्वामिनित्युक्त्वा ते दिवं ययुः॥ ५९॥ पास सुपार्श्वस्खाम्यपि ततो दीक्षादानोत्सवोत्सुकः । दानचिन्तामणिर्दानं ददौ संवत्सरावधि ॥६॥ सांवत्सरिकदानान्ते वासवैश्चलितासनैः । दीक्षाभिषेको विदधे सुपार्श्वखामिनस्ततः॥ ६१॥ अथो मनोहरा नाम नानारत्नमनोहराम् । अध्यारुरोह शिबिकां शिवगामी जगत्पतिः॥ ६२॥ अन्वीयमानो भगवान् सुरा-ऽसुर-नरेश्वरैः । सहस्राम्रवणं नाम जगामोपवनोत्तमम् ।। ६३ ॥ त्रिजगद्भूषणं स्वामी तत्रौज्झद् भूषणादिकम् । शक्रन्यस्तं देवदृष्यं स्कन्धदेशे दधार च ॥ ६४ ॥ ज्येष्ठशुद्धत्रयोदश्यां रोधायां पश्चिमेऽहनि । समं नृपसहस्रेण षष्ठेन प्रावजत् प्रभुः॥६५॥ १ विवाहं चकार । २ धारयाञ्चकार । ३ विंशत्यङ्गैः-विंशतिपूर्वाङ्गैरित्यर्थः । ४ व्यतीतानि । ५ स्वामिनः समीपम् उपस्वामि । ६ तीर्थङ्करा हि दीक्षाग्रहणात् पूर्व संवत्सरपर्यन्तं भूरि भूरि दानं कुर्वन्ति अत उक्तं दीक्षादानोत्सवोत्सुकः। - सिद्धिगतिं गन्ता। ८ औज्झत् मुमोच । ९ विशाखानामके नक्षत्रे । ४ सुपार्श्वजिनस दीक्षा केवळ४ा ज्ञानं च Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy