SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ सुपार्श्वजिनजन्मादि तीर्थकृजननीत्वेन भावि दासीत्वमस्तु तत् । रूपेणापि जितास्तस्या दास्योऽभूवन् सुराङ्गनाः॥ २६ ॥ __ इतश्च नन्दिषेणस्य जीवो ग्रैवेयके स्थितः । षष्ठेऽपूरयदायुः स्वमष्टाविंशतिसागरम् ॥ २७ ॥ च्युत्वा भाद्रपदे कृष्णाष्टम्यां राधागते विधौ । स जीवो नन्दिषेणस्य पृथव्याः कुक्षाववातरत् ॥२८॥ सुखसुप्ता निशाशेषे पृथ्वीदेवी तदैक्षत । तीर्थजन्मपिशुनान् महास्वमांश्चतुर्दश ।। २९॥ सुप्तमेकफणे पञ्चफणे नवफणेऽपि च । नागतल्पे ददर्श खं देवी गर्ने प्रवर्धिनी ॥ ३०॥ ज्येष्ठस्य शुद्धद्वादश्यां विशाखास्थे निशाकरे । स्वर्णवर्ण स्वस्तिकाएं सुतं सा सुषुवे सुखम् ॥ ३१ ॥ जिनजन्मावधिज्ञानाज्ज्ञात्वा तत्रत्य सत्वरम् । षट्पञ्चाशद् दिकुमार्यः सूतिकर्माणि चक्रिरे ॥ ३२॥ तथैवाऽऽगत्य शक्रोऽपि समादाय जगत्पतिम् । मेरुमूर्धन्यतिपाण्डुकम्बलामगमच्छिलाम् ॥ ३३ ॥ बालधार इवोत्सङ्गे निधाय परमेश्वरम् । रत्नसिंहासने तत्र निषसाद पुरन्दरः ॥ ३४ ॥ तीर्थनाथं तीर्थतोयस्त्रिषष्टिरथ वासवाः । क्रमेणास्नपयन्नब्धिवेला इव तटाचलम् ॥ ३५ ॥ ईशानाङ्के निवेश्येशं शक्रोऽप्यस्नपयजलैः । स्फाटिकोक्षविषाणोत्थैर्धारायत्रोत्थितैरिव ।। ३६ ॥ विलिप्य पूजयित्वा च वस्त्रालङ्करणादिना । जगत्पतिमिति स्तोतुं सौधर्मेन्द्रः प्रचक्रमे ॥ ३७॥ अविज्ञेयस्वरूपे त्वय्यर्थवादाग्रहो मम । आदित्यमण्डलादाने फालदानं कपेरिख ।। ३८ ॥ तथापि त्वत्प्रभावेण स्तोष्ये त्वां परमेश्वर ! । स्यन्दन्ते चन्द्रकान्ता हि चन्द्रकान्तिप्रभावतः ॥ ३९ ॥ १ विशाखानक्षत्रगते चन्द्रे । २ अगमत्-जगाम । ३ स्फाटिकोक्षविषाणोरथैः-स्फाटिकबलीवर्दशृङ्गनिर्गतैः ॥ ४ कूर्दनम् , भाषायाम्-'फाल भरवी, कूदको मारवो' । Jain Education Inter M For Private & Personal use only Tiww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy