________________
***
पञ्चमः सर्गः। श्रीसुपार्श्वनाथचरित्रम् ।
000000000
-
-
श्रीसुपार्श्वजिनेन्द्रस्य पान्तु वो देशनागिरः । उद्वेलकेवलज्ञानसमुद्रस्येव वीचयः ॥१॥ चरितं श्रीसुपार्श्वस्य वक्ष्येऽहं सप्तमार्हतः । कुबोधध्वान्तसुदिनमशेषाणां शरीरिणाम् ॥२॥ धातकीखण्डद्वीपस्य प्राग्विदेहविशेषके । विजये रमणीयेऽस्ति नाना क्षेमपुरी पुरी ॥३॥ तत्राऽऽसीजगदानन्दी नन्दिषणो नरेश्वरः। दिनेश्वर इव श्रीमांस्तेजसामेकमास्पदम् ॥४॥ अशेषराज्यव्यापारे जागरूकस्य सर्वदा । तस्य प्रधान्यभूद् धर्मो दोर्दण्ड इव दक्षिणः ॥५॥ निघतः कण्टकीभूतान् जनतासुखहेतवे । तस्य कोपोपि धर्माय किं पुनः प्रस्तुताः क्रिया:? ॥६॥ अहो! आश्चर्यमनिशं स्मृतिगोचरतां गतः। श्रीवीतरागो भगवांस्तस्य हृच्छयतां ययौ ॥७॥ आत्तानामतिहरणे स शरण्यः सदाऽभवत् । स्मरातुरपरस्त्रीणां न कदापि कथञ्चन ॥८॥ कालेन गच्छता सोऽभूद् भवोद्विग्नो महामनाः। गत्वाऽरिदमनाचार्यान्तिके दीक्षामुपाददे ॥९॥ स व्रतं पालयंस्तीक्ष्णं स्थानकैः कैश्चिदप्यथ । तीर्थकुन्नामकर्मोपार्जयामास महामुनिः ॥१०॥ ततो विधायानशनं समये स महामतिः। मृत्वा ग्रैवेयके षष्ठे महर्द्धिरमरोऽभवत् ॥११॥
प्रधान्यभूत्-प्रधानो बभूव । * कामरूपताम् संवृ० टिप्पणी ॥ २ अर्ति-पीडा । ३ संसाराद् उद्विग्नः ।। 1 °हामुनिः। मृ मो०॥
सुपार्श्वजिनपूर्वजन्मसम्बन्धः
ISSSSSS***
पालयंस्तीहभद भवोदिमो महान् । सरातुरपरस्त्रीणां गवांस्तस्य हच्छयता या
त्रिषष्टि, ५६
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org