________________
त्रिषष्टि
शलाकापुरुषचरिते महाकाव्ये
तृतीयं पर्व चतुर्थः सर्गः पद्मप्रभस्वामिचरितम् ।
॥३२४॥
अहो ! मितं सुधावृष्टिरहो! बिम्बाधरः सुधा । अहो! वाणी सुधावर्षिण्यहो! कान्ता सुधामयी ॥१६७॥ हा रत्नघटिता स्तम्भाः! हा श्रीमन्मणिकुट्टिमाः!। हा वेदिका रत्नमय्यः कस्य यास्यथ संश्रयम् ॥१६८॥ हा ! रत्नसोपानचिताः कमलोत्पलमालिताः । भविष्यन्त्युपभोगाय कस्येमाः पूर्णवापयः १ ॥१६९॥ हे पारिजात! मन्दार! सन्तान! हरिचन्दन । कल्पद्रुम ! विमोक्तव्यः किं भवद्भिरयं जनः ॥१७॥ हहा ! स्त्रीगर्भनरके वस्तव्यमवशस्य मे । हहाऽशुचिरसास्वादः कर्तव्यो मयका मुहुः ॥१७१॥ हहा हा ! जठराङ्गारशकटीपाकसम्भवम् । मया दुःखं विषोढव्यं बद्धेन निजकर्मणा ॥१७२ ॥ रतेरिव निधानानि व तास्ताः सुरयोषितः । क्वाऽशुचिस्यन्दबीभत्सा भोक्तव्या नरयोषितः ॥ १७३ ॥ एवं खोकवस्तूनि स्मारं स्मारं दिवौकसः। विलपन्तः क्षणस्यान्तर्विध्यायन्ति प्रदीपवत् ॥ १७४॥
॥नवभिः कुलकम् ॥ असारमित्थं संसारं चिन्तयित्वा विमुक्तये । प्रयतेत परिव्रज्योपायेन शुभधीर्जनः ॥ १७५॥
भर्तुस्तया देशनया प्रतिबुद्धाः सहस्रशः। केचिदाददिरे दीक्षां सम्यक्त्वमपरे पुनः ॥ १७६॥ सुव्रताद्या गणभृतोऽभूवन् सप्तोत्तरं शतम् । जग्रन्थुद्वादशाङ्गी ते प्रपद्य त्रिपदी प्रभोः॥१७७ ॥ देशनाविरते नाथे सुव्रतो देशनां व्यधात् । शिष्या गुरूणां कूपानामाहावा इव तक्रियाः॥१७८॥ विरते देशनातोऽसिन्नपि सर्वे सुरादयः । प्रणिपत्य जगन्नाथं स्थानं निजनिजं ययुः॥१७९ ॥ . कुट्टिमम् भूमितलम् । २ आश्रयम् । ३ मालिताः शोभिताः । ४ अङ्गारशकटी भाषायाम्-'सगडी'। ५ आहावाः कूपसमीपवर्तिनः गर्ताः।
॥३२४॥
Jain Education Interco
For Private & Personal use only
www.jainelibrary.org.