________________
HORORSCORCHESHDOL
प्राप्तेऽपि पुण्यतः स्वर्गे काम-क्रोध-भयातुराः। न स्वस्थतामश्नुते सुराः कान्दर्पिकादयः ॥१५४॥ अथ च्यवनचिह्नानि दृष्ट्वा दृष्ट्वा विमृश्य च । विलीयन्तेऽथ जल्पन्ति व निलीयामहे वयम् ? ॥१५५ ॥ तथाहि-अम्लाना अपि हि मालाः सुरद्रुमसमुद्भवाः। म्लानीभवन्ति देवानां वदनाम्भोरुहैः समम् ॥१५६॥ हृदयेन समं विश्वग्विश्लिष्यत्सन्धिबन्धनाः । महाबलैरप्यकम्प्याः कम्पन्ते कल्पपादपाः ॥ १५७ ॥ आकालप्रतिपन्नाभ्यां प्रियाभ्यां च सहैव हि । श्री-हीभ्यां परिमुच्यन्ते कृतागस इवामराः ॥१५८ ॥ अम्बरश्रीरपमला मलिनीभवति क्षणात् । अप्यकसाद् विसृमरैरघौधैर्मलिनधनैः॥१५९ ॥ अदीना अपि दैन्येन विनिद्रा अपि निद्रया । आश्रीयन्ते मृत्युकाले पक्षाभ्यामिव कीटिकाः॥१६॥ विषयेष्वतिरज्यन्ते न्यायधर्मविवाधया । अपथ्यान्यपि यत्नेन स्पृहयन्ति मुमूर्षवः ॥१६१॥ नीरुजामपि भज्यन्ते सर्वाङ्गोपाङ्गसन्धयः । भाविदुर्गतिपातोत्थवेदनाविवशा इव ॥ १६२ ॥ पदार्थग्रहणेऽकसाद् भवन्त्यपटुदृष्टयः । परेषां सम्पदुत्कर्षमिव प्रेक्षितुमक्षमाः॥ १६३ ॥ गर्भावासनिवासोत्थदुःखागमभयादिव । प्रकम्पतरलैरङ्गैर्भापयन्ति परानपि ॥ १६४ ॥ निश्चितच्यवनाश्चिकैर्लभन्ते न रति क्वचित । विमाने नन्दने वाप्यामङ्गारालिङ्गिता इव ॥ १६५॥ हा प्रियाः! हा विमानानि ! हा वाप्यो! हा सरद्रमाः!। क्व द्रष्टव्याः पुनयूयं हतदैववियोजिताः॥१६६॥ १ प्रामुवन्ति । कान्दर्पिकाः अधमदेवाः । २ समन्तात् । ३ वस्त्रम् । * °रप्यम° संवृ० ॥ ४ विसमरं प्रसरणशीलम् । ५ निहारहिताः । ६ न्यायो नीतिमार्गः । ७ मरणाभिलाषिणः। रोगरहितानाम् अपि । ९ पदार्थप्रत्यक्षीकरणे अपट्टदृष्टयः मन्ददृष्टयः । १० भयं जनयन्ति । ११ अङ्गारर्दग्धा इव ।
लाभापयन्तिमाः ॥१६३
कचित
Jain Education in
For Private & Personal Lise Only
www.jainelibrary.org.