________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
तृतीयं पर्व चतुर्थी
सर्गः पनप्रभखामिचरितम् । देवगतिक्लेशवर्णनम्
॥३२३॥
SALASSSSSSS
अनन्तकर्मप्रचयक्षयक्षममिदं क्षणात् । मानुषत्वमपि प्राप्ताः पापाः पापानि कुर्वते ॥ १४२ ॥ ज्ञान-दर्शन-चारित्ररत्नत्रितयभाजने । मनुजत्वे पापकर्म स्वर्णभाण्डे सुरोपमम् ॥ १४३॥ संसारसागरगतैः शैमिलायुगयोगवत् । लब्धं कथश्चिन्मानुष्यं हा ! रत्नमिव हार्यते ॥ १४४ ॥ लब्धे मानुष्यके वर्ग-मोक्षप्राप्तिनिवन्धने । हा! नरकास्युपायेषु कर्मसूत्तिष्ठते जनः ॥१४५॥ आशास्यते यत् प्रयत्नादनुत्तरसुरैरपि । तत् सम्प्राप्तं मनुष्यत्वं पापैः पापेषु योज्यते ॥१४६॥ परोक्षं नरके दुःखं प्रत्यक्षं नरजन्मनि । तत्प्रपञ्चः प्रपञ्चेन किमर्थमुपवर्ण्यते ॥ १४७॥
शोका-ऽमर्ष-विषादेा-दैन्यादिहतबुद्धिषु । अमरेष्वपि दुःखस्य साम्राज्यमनुवर्तते ॥१४८॥ दृष्ट्वा परस्य महतीं श्रियं प्राग्जन्मजीवितम् । अर्जितस्वल्पसुकृतं शोचन्ति सुचिरं सुराः ॥ १४९॥ चिराद् वा बलिनाऽन्येन प्रतिकतु तमक्षमाः। तीक्ष्णेनामर्षशल्येन दोद्यन्ते निरन्तरम् ॥ १५०॥ न कृतं सुकृतं किञ्चिदाभियोग्यं ततो हि नः। दृष्टोत्तरोत्तरश्रीका विषीदन्तीति नाकिनः ॥१५१॥ दृष्ट्वाऽन्येषां विमान-स्त्री-रत्नोपवनसम्पदम् । यावजीवं विपच्यन्ते ज्वलदानलोर्मिभिः ॥१५२॥ हा प्राणेश ! प्रभो ! देव ! प्रसीदेति सगद्गदम् । परैर्मूषितसर्वस्वा भाषन्ते दीनवृत्तयः॥१५३॥
. मद्यसदृशम् । २ शमिला भाषायां समोल', यत्र छिद्रे योनधारणाय रज्जुः निक्षिप्यते। युगं च भाषायां 'धोसरूं' । शमिलायुग| योगश्चेत्थम्-यथा समुद्रे एकतः शमिला क्षिप्ता, अन्यत: युगम् क्षिप्तम् । तौ द्वौ प्रवाहेण वाह्यमानौ पुनः कदा सम्बन्धयुक्तौ भविष्यतः | अर्थात् युगच्छिद्रे शमिला कदा कथं प्रविशेत् ? इति न ज्ञायते । यथा च तयोर्द्वयोः सम्बन्धो दुःशकः एवमेव मनुजभवः सुदुर्लभः । का उद्यमशीलो भवति । ४ विस्तारेण । ५ पुनः पुनः भृशं वा ठूनाः क्षीणाः भवन्ति । ६ किङ्करदेवत्वम् । ७ मूषित-चोरित ।
॥३२३॥
Jain Education Intern
For Private & Personal use only
IDlwww.jainelibrary.org