SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ मनुष्यगति खरूपम् उत्पन्ना आर्यदेशेऽपि चाण्डाल-श्वपचादयः । तत् तत् पापं प्रकुर्वन्ति दुःखान्यनुभवन्ति च ॥ १२९॥ आर्यदेशे समुद्भता अप्यनार्यविचेष्टिताः । दुःख-दारिद्य-दौर्भाग्यनिर्दग्धा दुःखमासते ॥ १३०॥ परसम्पत्प्रकर्षणापकर्षेण वसम्पदाम् । परप्रेष्यतया दग्धा दुःखं जीवन्ति मानवाः ॥१३१ ॥ रुग-जरा-मरणग्रस्ता नीचकर्मकदर्थिताः । तां तां दुःखदशां दीनाः प्रपद्यन्ते दयास्पदम् ॥ १३२॥ जरा रुजा मृतिर्दास्यं न तथा दुःखकारणम् । गर्भे वासो यथा घोरनरकावाससन्निभः ।। १३३॥ सूचीभिरग्निवर्णाभिभिन्नस्य प्रतिरोम यत् । दुःखं नरस्याष्टगुणं तद् भवेद् गर्भवासिनः ॥१३४ ॥ योनियत्राद् विनिष्क्रामन् यद् दुःखं लभते भवी । गर्भवासभवाद् दुःखात् तदनन्तगुणं खलु ॥ १३५॥ बाल्ये मत्र-पुरीषेण यौवने रतचेष्टितैः । वार्धके श्वास-कासाथैर्जनो जातु न लञ्जते ॥ १३६॥ पुरीषसूकरः पूर्वं ततो मदनगर्दभः । जराजरद्वः पश्चात् कदापि न पुमान् पुमान् ॥१३७॥ स्वाच्छैशवे मातृमुखस्तारुण्ये तरुणीमुखः । वृद्धभावे सुतमुखो मूर्यो नान्तर्मुखः क्वचित् ॥ १३८ ॥ सेवा-कर्षण-वाणिज्य-पाशुपाल्यादिकर्मभिः । क्षपयत्यफलं जन्म धनाशाविह्वलो जनः ॥१३९॥ क्वचिचौर्य क्वचिद् द्यूतं क्वचिन्नीचर्भुजङ्गता । मनुष्याणामहो ! भूयो भवभ्रमनिबन्धनम् ॥ १४॥ सुखित्वे कामललितैर्दुःखित्वे दैन्य-रोदनैः । नयन्ति जन्म मोहान्धा न पुनधर्मकर्मभिः ॥ १४१ ॥ दुःखपूर्वकम् आसते तिष्ठन्ति । २ परदासतया। ३ मातृमुखः । मातृपरतन्नः । ४ तरुणीपरवशः । ५ सुतपराधीनः। ६ भुजङ्गो गणिकापतिः। * भ्रमिनि संवृ०॥ Jain Education Inte l For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy