________________
तिर्यग्गतिदुःखस्वरूपम्
- RECOMMEGAME
हलादिशस्त्रैः पाठ्यन्ते मृद्यन्तेऽश्व-गजादिभिः। वारिप्रवाहैः प्लाव्यन्ते दह्यन्ते च दवाग्निना ॥१०१॥ व्यथ्यन्ते लवणा-ऽचाम्ल-मूत्रादिसलिलैरपि । लवणक्षारतां प्राप्ताः क्वथ्यन्ते चोष्णवारिणा ॥१०२॥ पच्यन्ते कुम्भकाराद्यैः कृत्वा कुम्भेष्टकादिसात् । चीयन्ते भित्तिमध्ये च नीत्वा कर्दमरूपताम् ॥१०३॥ केचिच्छाणैनिघृष्यन्ते विपच्य क्षारमृत्पुटैः । टङ्काण्डकैर्विदार्यन्ते पाठ्यन्तेऽद्रिसरित्प्लवैः ॥१०४॥ अकायतां पुनः प्राप्तास्ताप्यन्ते तपनांशुभिः । घनीक्रियन्ते तुहिनैः संशोष्यन्ते च पांसुभिः ॥१०५॥ क्षारेतररसाश्लेषाद् विपद्यन्ते परस्परम् । स्थाल्यन्तस्था विपच्यन्ते पीयन्ते च पिपासितैः ॥ १०६॥ तेजाकायत्वमाप्ताश्च विध्याप्यन्ते जलादिभिः । पनादिभिः प्रकुट्यन्ते ज्वाल्यन्ते चेन्धनादिभिः॥१०७॥ वायुकायत्वमप्याप्ता हन्यन्ते व्यजनादिभिः । शीतोष्णादिद्रव्ययोगाद् विपद्यन्ते क्षणे क्षणे ॥१०८॥ प्राचीनाद्यास्तु सर्वेऽपि विराध्यन्ते परस्परम । मुखादिवातैर्वाध्यन्ते पीयन्ते चोरगादिभिः ॥१०९॥ वनस्पतित्वं दशधा प्राप्ताः कन्दादिभेदतः। छिद्यन्ते वाऽथ भिद्यन्ते पच्यते वाऽग्नियोगतः ॥११॥ संशोष्यन्ते निपिष्यन्ते प्लुष्यन्तेऽन्योन्यघर्षणैः । क्षारादिभिश्च दह्यन्ते सन्धीयन्ते च भोक्तृभिः ॥१११॥ सर्वावस्थासु खाद्यन्ते भज्यन्ते च प्रभञ्जनैः । क्रियन्ते भस्मसाद् दावैरुन्मूल्यन्ते सरित्प्लवैः ॥११२॥ सर्वेऽपि वनस्पतयः सर्वेषां भोज्यतां गताः । सर्वैः शस्त्रैः सर्वदाऽनुभवन्ति क्लेशसन्ततिम् ॥ ११३ ॥ द्वीन्द्रियत्वे च ताप्यन्ते पीयन्ते पूतरादयः । चूर्ण्यन्ते कृमयः पादैर्भक्ष्यन्ते चटकादिभिः ॥ ११४ ॥
१ आचाम्लम् अम्लम् , भाषायाम् 'खाटुं'। रघट्टीक्रियन्ते हिमैः। ३ घन इति भाषायाम् 'घण' । ४ तालवृन्तादिव्यजनैः, हाव्यजनम् भाषायाम् 'वीजणो'।
For Private & Personal use only
www.jainelibrary.org,
Jain Education Intere
का