SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते महाकाव्ये ॥३२०॥ Jain Education Inter विजहार च षण्मासांश्छद्मस्थः परमेश्वरः । आगाद् भूयः सहस्रास्रवणं दीक्षैकसाक्षिकम् ॥ ६३ ॥ षष्ठेन प्रतिमास्थस्य विभोर्वटतरोस्तले । प्रणेशैर्घातिकर्माणि वातोद्धूताभ्रजालवत् ॥ ६४ ॥ ततश्चैत्रस्य कायां चन्द्रे चित्रामुपेयुषि । अम्लानं केवलज्ञानमभूत् पद्मप्रभप्रभोः ।। ६५ ।। सुरा - सुरेन्द्राः समवसरणं तत्र चक्रिरे । प्राग्द्वारा प्रविवेशाथ तत्र त्रिभुवनेश्वरः ॥ ६६ ॥ सार्धक्रोशोन्नतं चैत्यपादपं परमेश्वरः । तत्र प्रदक्षिणीचक्रे तमिव त्रिदिवेश्वरः ॥ ६७॥ 'तीर्थाय नम' इत्येवमुच्चैरुच्चारितस्तुतिः । रत्नसिंहासने पूर्वाभिमुखो न्यषदत् प्रभुः ॥ ६८ ॥ प्रभो प्रतिविम्वानि दिवन्याखपि नाकिनः । तत्प्रभावेण तद्रूपनिर्विशेषणि चक्रिरे ॥ ६९ ॥ तत्र चास्थाद् यथास्थानं श्रीमान् सङ्घश्चतुर्विधः । स्वामिन्युत्कण्ठयोत्कण्ठः केकिज इवाम्बुदे ॥ ७० ॥ अथ सौधर्मकल्पेन्द्रः प्रणम्य परमेश्वरम् । यथार्थसारया वाचा तुष्टाव स्पष्टभक्तितः ॥ ७१ ॥ निमन् परपचमृमुपसर्गान् प्रतिक्षिपन् । प्राप्तोऽसि शमसौहित्यं महतां काऽपि वैदुषी ॥ ७२ ॥ अरक्तो भुक्तवान् मुक्तिमद्विष्टो हतवान् द्विषः । अहो ! महात्मनां कोऽपि महिमा लोकदुर्लभः ॥ ७३ ॥ सर्वथा निर्जिगीषेण भीतभीतेन चागेसः । त्वया जगत्रयं जिग्ये महतां काऽपि चातुरी ॥ ७४ ॥ दत्तं न किञ्चित् कस्मैचिन्नाऽऽत्तं किञ्चित् कुतश्चन । प्रभुत्वं ते तथाप्येतत् कला काऽपि विपश्चिताम् ॥ ७५ ॥ यद्देहस्यापि दानेन सुकृतं नार्जितं परैः । उदासीनस्य तन्नाथ ! पादपीठे तवालुठत् ।। ७६ ।। १ भूयः पुनः । २ नाशं प्रापुः । ३ उद्भूतं विनाशितम् । ४ पूर्णिमायाम् । ५ देवाः नाकवासिनः, कम् सुखम्, अकम् असुखम् दुःखम् नास्ति अकं यत्र असौ नाकः खर्गः । ६ निर्विशेषम् समानम् । ७ स्तुतिं चकार । ८ जिगीषा विजयेच्छा । ९ आगः पापम् । For Private & Personal Use Only तृतीयं पर्व 'चतुर्थः सर्गः पद्मप्रभ स्वामि चरितम् । ॥ ३२० ॥ www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy