________________
Jain Education Internat
न भूपाः खण्डयामासुस्तस्याऽऽज्ञां क्षितिमण्डले । पुष्पस्रजमिवाखण्डां दधुः शिरसि किन्तु ते ॥ २४ ॥ कोण्डोदण्डदोर्दण्डोऽप्येष नो दण्डचण्डताम् । अदर्शयत् किन्तु सौम्यस्तस्थौ भद्र इव द्विपः ।। २५ ।। यशो-नुरागैर्युगपद् विस्तीर्णैः ककुभोऽभितः । अचर्चयच्चिरं सोऽर्धश्रीखण्ड घुसृणैरिव ॥ २६ ॥ तस्मिन् महीपतौ लक्ष्मीदेव्या लीलानिकेतने । गुणराशिरभूद् वास्तुदेवतेव सहोत्थितः ॥ २७ ॥
सतीनां सीमभूताऽभूत् सुसीमा नाम तस्य तु । सधर्मचारिणी देवकन्यासब्रह्मचारिणी ॥ २८ ॥ पाणि-पादाऽधरेणाविःपल्लवा पुष्पिता रैदैः । दोर्भ्यां सशाखा शुशुभे कल्पद्रुमलतेव सा ।। २९ ।। नीर्रङ्गीच्छन्नवदना पश्यन्ती भुवमेव हि । ईर्यासमितिलीनेव मॅन्थरं सञ्चचार सा ॥ ३० ॥ तस्याः शरीरं कान्त्येव हिया शीलमभ्रष्यत । आर्जवेन मन इव वचनं सूनृतेन च ॥ ३१ ॥ वदन्ती साऽतिविशदैर्दन्तांशुभिरशोभत । रजनीरमणज्योत्स्नाप्लेवैरिव विभावरी ॥ ३२ ॥
इतो ग्रैवेयके जीवः सोऽपराजित भूपतेः । एकाग्रत्रिंशदम्भोधिमितमायुरपूरयत् ॥ ३३ ॥ माघस्य षष्ठ्यां कृष्णायां चित्रास्थे रजनीकरे । च्युत्वा सुसीमास्वामिन्याः कुक्षाववततार च ॥ ३४ ॥ तदा मुखे प्रविशतस्तीर्थक्रुज्जन्मसूचकान् । चतुर्दश महास्वनान् सुसीमा देव्युदैक्षत ॥ ३५ ॥ वर्धमाने क्रमाद् गर्भे पद्मशय्यासु दोहदः । अभूद् देव्या देवताभिः पर्यपूर्यत तत्क्षणात् ॥ ३६ ॥
१] ककुप् दिशा । २ श्रीखण्डम् चन्दनम्, घुसृणम् केसरम् । ३ वास्तुदेवता गृहदेवता । ४ आविः प्रकटितम् । ५ रदाः दन्ताः । ६ नीरङ्गी शिरोऽवगुण्ठनम्, भाषायाम् 'लाज घुमटो' । 'नीरङ्गी' शब्दो देश्यमाकृतरूपः । ७ मन्दं मन्दम् । ८ अंशवः किरणाः । ९ लवः पूरम्। * एकोनत्रिं संवृ० ॥
For Private & Personal Use Only
पद्मप्रभजिन
जन्म उत्सवश्च
www.jainelibrary.org.