SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥१७८॥ Jain Education Internatio इति प्राप्याऽपि सामग्री, शिवाय यतते न यः । सम्पन्नायां रसवत्यां स तिष्ठति बुभुक्षितः ॥ ५६ ॥ उभयोरपि चोर्ध्वाऽधोगत्योः स्वायत्तयोरिह । धावत्यधोमुखं प्रायो, जडधीर्जलवज्जनः ॥ ५७ ॥ समये साधयिष्यामि, स्वार्थमित्याशयं वहन् । प्राप्यतेऽर्वाग् यमदूतैररण्ये तस्करैरित्र ॥ ५८ ॥ कृत्वाऽघमपि यान् पुष्येत्, तेषामुत्पश्यतामपि । अत्राणो रङ्कवजन्तुः, कृष्ट्वा कालेन नीयते ॥ ५९ ॥ ततश्च नीतो नरके, लभतेऽनन्तवेदनाः । जन्मान्तरानुधावीनि कर्माणि ऋणवन्नृणाम् ॥ ६० ॥ माताऽसौ मे पिता चाऽसौ, भ्राताऽसावङ्गभूरसौ । इति खबुद्धिर्मिथ्यैव, शरीरमपि न स्वकम् ॥ ६१ ॥ एषां पृथक् पृथक् स्थानादेर्युपामिह केवलम् । एकत्राऽवस्थितिः स्थाने, पक्षिणामिव पादपे ॥ ६२ ॥ ततोऽप्यन्यत्र गच्छन्ति, पृथक् स्थानेषु देहिनः । नक्तमेकत्र शयिताः, पान्था इव निशात्यये ॥ ६३ ॥ अरघट्टघटीन्यायेनैहिरेयांहिरामिह । कुर्वतां देहिनां हन्त !, कः स्वकः ? कः परोऽथवा ? ॥ ६४ ॥ तत् त्यक्तव्यं कुटुम्बादि, त्यक्तव्यं पुरतोऽप्यदः । स्वार्थायैव यतितव्यं, स्वार्थभ्रंशो हि मूर्खता ॥ ६५ ॥ एकान्तानन्तसुखदः, स्वार्थो निर्वाणलक्षणः । मूलोत्तरगुणैः स स्यात्, प्रकाशोर्ककरैरिव ॥ ६६ ॥ इति चिन्तयतो राज्ञश्चिन्तामणिरिव स्वयम् । श्रीमानरिन्दमो नामोद्याने सूरिः समाययौ ॥ ६७ ॥ तदागमनवार्ता च, समाकर्ण्य महीपतिः । पीतपीयूषगण्डूप, इव हर्षं समासदत् ॥ ६८ ॥ तं वन्दितुमथाऽऽनन्दादचालीदचलापतिः । मायूरपत्रातपत्रैः कुर्वन् साब्दमिवाऽम्बरम् ॥ ६९ ॥ १ स्वाधीनयोः । २ बन्धूनाम् । * रानुबन्धीनि खंता ॥ ३ पुत्रः । ४ आगवानाम् । ५ गमनागमनम् । ६ मोक्षलक्षणः । ७ राजा । ८ मेघसहितम् । For Private & Personal Use Only द्वितीयं पर्व प्रथमः सर्गः अजित नाथ चरितम् । पूर्वभवचरिते प्रथमो विमलवाहनभवः । ॥१७८॥ www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy