________________
विजयादातुरत्राणादर्थिसम्प्रीणनादपि । युद्धवीरो दयावीरस्त्यागवीरश्च सोऽभवत् ॥४१॥ स एवं राजधर्मस्थः, स्थिरधीरप्रमद्वरः । चिरं ररक्ष वसुधां, सुधामिव फणीश्वरः ॥ ४२ ॥ कृत्याकृत्यविदस्तस्य, सारासारं विविञ्चतः । अन्येयुरेवमुत्पेदे, भववैराग्यवासना ॥ ४३ ॥
योनिलक्षमहावर्तनिपातक्लेशभीषणः । पारावार इवाऽपारः, संसारो धिगसावहो!॥४४॥ इहेन्द्रजालवत् स्वप्मजालवच्च भवे हहा! । क्षणाद् दृष्टैः क्षणानष्टैरथैद्यन्ति जन्तवः ॥ ४५ ॥ यौवनं पवनोद्धृतपताकाञ्चलचञ्चलम् । आयुः कुशाग्रविश्रान्तजलबिन्दुचलाचलम् ॥४६॥ अमुष्याऽप्यायुषो गर्भवासे नरकवासवत् । अत्यन्तदुःखाद् गच्छन्ति, मासाः पल्योपमोपमाः ॥४७॥ अथ जातस्य बालत्वेऽप्यायुर्भागः कियानपि । परप्रणेयस्य सतो, मुधाऽन्धस्येव गच्छति ॥४८॥ इन्द्रियार्थरसखादुरसास्वादेन यौवने । मत्तस्येव वृथा गच्छत्यायुरंशः कियानपि ॥ ४९ ॥ त्रिवर्गसाधनाशक्तवपुषश्च वपुष्मतः । आयुः शेषं वृथा याति, प्रसुप्तस्येव वाईके ॥५०॥ इत्थं विदन्नपि भवी, भवायैव विचेष्टते । कामं रोगीव रोगाय, विषयास्वादलम्पटः ॥५१॥ यौवने विषयेभ्योऽसौ, यथा द्युत्तिष्ठते भवी । तथोत्तिष्ठेत चेन्मुक्त्यै, किं हि न्यूनं तदा भवेत् ? ।। ५२॥ खयङ्कतैः कर्मपाशैः, खं भवी वेष्टयत्यहो। स्खलालातन्तुसन्तत्या, जालकार इव कृमिः ॥ ५३॥ अम्भोधौ युगशमिलाप्रवेशन्यायतो भवे । कथश्चिन्मानुषं जन्म, लभ्यते पुण्ययोगतः ॥ ५४॥ तत्रापि चाऽऽर्यदेशेषु, जन्मिनो जन्म जायते । महतश्च कुलस्याऽऽप्तिः, सेवा गुरुकुलस्य च ॥ ५५ ॥ १ अरिजयात् । २ परापेक्षारहितः। ३ समुद्रः। ४ पराधीनस्य । ५ आत्मानम् ।
Jain Education International
For Private & Personal use only
How.jainelibrary.org.