________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १७७॥
Jain Education Internatio
प्रपुष्णन् लालयन् वृद्धिं प्रापयन् लम्भयन् गुणैः । स प्रजाः पालयामास, स्वापत्यानीव वत्सलः ॥ २६ ॥ द्वितीयं पर्व अन्यायं स निजस्याsपि न सेहे न्यायनिष्ठुरः । चिकित्स्यते हि निपुणैरङ्गोद्भवमपि व्रणम् ॥ २७ ॥ लीलयैव महौजस्कः, स विवेगवनीभुजाम् । शिरांसि नमयामास, समीर इव भूरुहाम् ॥ २८ ॥ त्रिवर्ग पालयामास, परस्परमबाधितम् । नानाविधं प्राणिगणं, महात्मेव तपोधनः ॥ २९ ॥ औदार्य -- गाम्भीर्य क्षान्तिप्रभृतयो गुणाः । तस्याऽन्योऽन्यमभूष्यन्तोपवनस्येव पादपाः ॥ ३० ॥ सर्पन्तो गुणास्तस्य, सौभाग्यैकधुरन्धराः । कस्य न ह्यलगन् कण्ठे, चिरायातवयस्यवत् १ ॥ ३१ ॥ पर्वतारण्यदुर्गादिदेशेष्वपि महौजसः । सदागतेरिव गतिः, शासनं तस्य नाऽस्खलत् ॥ ३२ ॥ आक्रान्ताशेषदिकस्य, प्रसरचण्डतेजसः । लुलुठुर्भूभृतां मूर्ध्नि, पादास्तस्य खेरिव ॥ ३३ ॥ सर्वज्ञो भगवान् स्वामी, यथा तस्य महामतेः । भ्रूभुजामपि सर्वेषां स एवैकस्तथाऽभवत् ॥ ३४ ॥ विसूत्रितामित्रवलः, सुत्रामेवैकविक्रमः । साधुभ्य एव स शिरो, नमयामास बाल्यतः ॥ ३५ ॥ यथा तस्याsतुला शक्तिर्बाह्यानां द्विषतां जये । आन्तराणामपि तथा, वभूवैकविवेकिनः || ३६ || दुर्दमं दमयामास, बलादुत्पथगत्वरम् । यथेभ-वाजिप्रभृति, स इन्द्रियगणं तथा ॥ ३७ ॥ स ददौ दानशीलोऽपि, पात्र एव यथाविधि । पात्रे बहुफलं तद्धि, शुक्तावम्भोदवारिवत् ॥ ३८ ॥ विदधानः पैरपुरप्रवेशमिव सर्वतः । प्रजाः प्रवर्त्तयामास, धर्म्येऽध्वनि स धर्मवित् ॥ ३९ ॥ चरित्रेण पवित्रेण, सोऽवासयदिदं जगत् । मलयोवीं परिमलेनेव चन्दनपादपः ॥ ४० ॥
१ सर्वत्र । २ पवनस्य । ३ इन्द्रः । ४ क्रोधादीनाम् । ५ परकायाप्रवेशमिव ।
For Private & Personal Use Only
प्रथमः
सर्गः
अजित
नाथ
चरितम् ।
पूर्वभवचरिते प्रथमो विमलवाहनभवः ।
॥१७७॥
www.jainelibrary.org.