SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ पद्मप्रभजिनपूवैभवचरितम् चतुर्थः सर्गः। श्रीपद्मप्रभस्वामिचरित्रम् । वन्दामहे पद्मवर्ण पद्मप्रभजिनेश्वरम् । लीलानिवासं पद्मायाः पद्मराशिमिव स्थितम् ॥ १॥ पद्मप्रभजिनेन्द्रस्य चरितं दुरितापहम् । तत्प्रभावादसामान्याद् वक्ष्यामि क्षामधीरपि ॥२॥ धातकीखण्डद्वीपस्य प्राग्विदेहैकमण्डने । वत्साभिधाने विजये सुसीमेत्यस्ति पूर्वरा ॥३॥ तत्राऽपराजितो नाम द्विषद्भिरपराजितः । जितेन्द्रियः समभवद् भूपो धर्म इवाङ्गवान् ॥४॥ तस्य न्यायः सुहृदभूद् धर्मों बन्धुगुणा धनम् । सुहृद्रन्धु-धनान्यासन् बहिरङ्गानि केवलम् ॥५॥ तस्याऽऽर्जवं च शीलं च सत्वं चेत्यर्जिता गुणाः । मिथो भूषणतां जग्मुः पादपस्येव पल्लवाः ॥ ६॥ अकोपनोऽरीनशिर्षदनासक्तोऽन्वभूत सुखम् । अलुब्धश्च श्रियं दध्रे स विवेकिशिरोमणिः ॥७॥ अहेत्प्रवचनसुधां पिबन् देव इवान्यदा । स एवं चिन्तयामास तत्वनिष्ठेन चेतसा ॥८॥ सम्पदो यौवनं रूपं शरीरं हरिणीदृशः । पुत्र-मित्राणि हाणि दुस्त्यजानि शरीरिणाम् ॥९॥ जीवनप्यदशां प्राप्तः कालधर्म गतोऽपि वा । एभिस्तु त्यज्यते जन्तुर्विनष्टाण्डमिवाण्डजैः॥१०॥ एकपादेन फालाभं स्नेहं तेष्वेकपक्षकम । कुर्वाणो भ्रश्यति स्वार्थाद धिगहो! मन्दधीर्जनः॥११॥ लक्ष्म्याः । २ पापनाशकम् । ३क्षामा क्षीणा । ४ वरा पू: नगरी। * सत्यं चे° सङ्घ ॥ ५ अशिषत् शासयाजकार । GI अदशां दुर्दशाम् । ७ पक्षिभिः। ८ फालः उत्प्लवनम् , भाषायाम् 'फाळ' । Jain Education Inter ! For Private & Personal use only (allwww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy