________________
सुमतिजिनपरिवार
वामौ बाहू गदाधार-पाशयुक्तौ च धारयन् । सदा सन्निहितो भर्तुरभूच्छासनदेवता ॥ २४७॥ युग्मम् ॥ तथोत्पन्ना महाकाली स्वर्णरुक् पद्मवाहना । दधाना दक्षिणी बाहुदण्डौ वरद-नाशिनौ ॥ २४८॥ मातुलिङ्गा-ऽङ्कशधरौ परौ बाहू च बिभ्रती । भर्तुः शासनदेव्यासीत् सदा सनिधिवर्तिनी ॥२४९॥ __वचनातिशयैः पञ्चत्रिंशता शोभितः प्रभुः । बोधयन् भव्यभविनो विजहार वसुन्धराम् ॥ २५० ॥ साधूनां त्रीणि लक्षाणि सहस्राणि च विंशतिः । साध्वीनां पञ्चलक्षी च सहत्रिंशत्सहस्रिका ॥२५१॥ चतुर्दशपूर्विणां द्वे सहस्रे सचतुःशते । एकादश सहस्राणि त्ववधिज्ञानशालिनाम् ॥ २५२ ॥ मनोज्ञानिनामयुतं सपश्चाशचतुःशती । त्रयोदश सहस्राणि केवलज्ञानिनां पुनः॥२५३॥ वैक्रियलब्धिसहस्राण्यष्टादश चतुःशती । अयुतं वादलब्धीनां सपञ्चाशचतुःशती ॥ २५४॥ श्रावकाणामुभे लक्षे सैकाशीतिसहस्रके । श्राविकाणां पञ्चलक्षी सहस्राणि च षोडश ॥ २५५॥ चतुस्त्रिंशदतिशयान्वितस्य सुमतिप्रभोः। उव्यां विहरमाणस्य बभूवेति परिच्छदः ।। २५६ ॥
पूर्वलक्षं द्वादशाङ्ग्या विंशत्यब्द्या च वर्जितम् । आरभ्य केवलोत्पत्तेर्व्यहरत् सुमतिः प्रभुः॥२५७॥ खं मोक्षकालं ज्ञात्वाऽथ सम्मेताद्रिं ययौ विभुः । समं मुनिसहस्रेण तस्थावनशनेन च ॥ २५८ ॥ मासान्ते क्षतभवोपग्राहिकर्मा जगत्पतिः । सम्प्राप्तानन्तचतुष्कः शैलेशीध्यानमास्थितः ॥ २५९॥ चैत्रस्य सितनवम्यां पुनर्वसुगते विधौ । समं तैर्मुनिभिः स्वामी प्रपेदे पदमव्ययम् ॥२६॥ युग्मम् ॥
* °सन्निहिता भ° संवृ०॥ सुवर्णकान्तिः । रौवामबा' संवृ० सङ्घ ॥२ भव्यजीवान् । ३ परिवारः। न्ते क्षित मा संवृ० मो०॥४ क्षतं क्षीणम् । ५ पुनवसुनक्षत्रम् ।
सुमतिजिननिर्वाणम्
JainEducation idolral
For Private & Personal use only
www.jainelibrary.org