________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
तृतीयं पर्व तृतीयः सर्गः सुमतिखामिचरितम्
॥३१६॥
USANSARGESSASSAS
इह जीवस्य मा भूवन् सहाया बान्धवादयः । शरीरं तु सहायश्चेत् सुख-दुःखानुभूतिदम् ॥ २३३॥ नाऽऽयाति पूर्वभवतो न याति च भवान्तरम् । ततः कायः सहायः स्यात् सम्फेटमिलितः कथम् ? ॥२३४॥ धर्मा-ऽधर्मों समासन्नौ सहायाविति चेन्मतिः। नैषा सत्या न मोक्षेऽस्ति धर्मा-ऽधर्मसहायता ॥ २३५॥ तस्मादेको बम्भ्रमीति भवे कुर्वन् शुभा-ऽशुभे । जन्तुर्वेदयते चैतदनुरूपे शुभा-ऽशुभे ॥२६॥ एक एव समादत्ते मोक्षश्रियमनुत्तराम् । सर्वसम्बन्धिविरहाद् द्वितीयस्य न सम्भवः ॥ २३७॥ यद् दुःखं भवसम्बन्धि यत् सुखं मोक्षसम्भवम् । एक एवोपभुने तन्न सहायोऽस्ति कश्चन ॥२३८॥ यथा चैकस्तरन् सिन्धुं पारं व्रजति तत्क्षणात् । न तु हृत्पाणि-पादादिसंयोजितपरिग्रहः ॥ २३९ ।। तथैव धन-देहादिपरिग्रह पराङ्मुखः । स्वस्थ एको भवाम्भोधेः पारमासादयत्यसौ ॥ २४०॥ तत् सांसारिकसम्बन्धं विहायैकाकिना सता । यतितव्यं हि मोक्षाय शाश्वतानन्दशर्मणे ॥ २४१॥
तां प्रभोर्देशनां श्रुत्वा प्रबुद्धा बहवस्तदा । नरा नार्यश्च निःसङ्गीभूयोपाददिरे व्रतम् ॥ २४२॥ चमराद्या गणभृतोऽभूवन् शतमनुत्तमाः । ते भतुत्रिपदीं प्राप्य द्वादशाङ्गीमसूत्रयन् ॥ २४३॥ पूर्णायामादिपौरुष्यां व्यसृजद् देशनां विभुः । चक्रे खाम्यजिपीठस्थो देशनां गणभृद्वरः ॥ २४४॥ द्वितीयपौरुषीप्रान्ते व्यसृजत् सोऽपि देशनाम् । नत्वाऽर्हन्तं ततो जग्मुः स्वं खमिन्द्रादयः पदम् ।।२४५॥
तत्तीर्थे तुम्बुरुर्नाम श्वेताङ्गस्तार्यवाहनः । दक्षिणौ वरद-शक्तिधरौ बाहू समुद्वहन् ॥ २४६॥ * सहाय्यस्तु सुख संवृ० । सहास्त्वे तत् सुख मो०॥ विनशनस्वरूपेण मिलित इत्यर्थः । २ परिग्रहः शरीरम् । ३ तायः गरुडः।
सुमतिजिनशासनदेव
देव्यो
॥३१६॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org