SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte आयोजनं सुमनसोऽधस्तान्निक्षिप्तबन्धनाः । जानुदेशीः सुमनसो देशनोव्य किरन्ति ते ॥ २१९ ॥ मालव- कैशिकी मुख्यग्राम- रागपवित्रितः । तव दिव्यो ध्वनिः पीतो हर्षोद्रीवैर्मृगैरपि ॥ २२० ॥ तवेन्दुधामधवला चकास्ति चमरावली । हंसालिखि वामपरिचर्यापरायणा ।। २२१ ॥ मृगेन्द्रासनमारूढे त्वयि तन्वति देशनाम् । श्रोतुं मृगाः समायान्ति मृगेन्द्रमिव सेवितुम् ॥ २२२ ॥ चयैः परिवृतो ज्योत्स्नाभिरिव चन्द्रमाः । चकोराणामिव दृशां ददासि परमां मुदम् ।। २२३ ।। दुन्दुभिर्विश्वविश्वेश ! पुरो व्योम्नि प्रतिध्वनन् । जगत्याप्तेषु ते प्राज्यं साम्राज्यमित्र शंसति ॥ २२४ ॥ तवोर्द्धमूर्द्ध पुण्यर्द्धिक्रम सब्रह्मचारिणी । छत्रत्रयी त्रिभुवनप्रभुत्वप्रौढिशंसिनी ।। २२५ ॥ एतां चमत्कारकरीं प्रातिहार्यश्रियं तव । चित्रीयन्ते न के दृष्ट्वा नाथ ! मिथ्यादृशोऽपि हि ॥ २२६ ॥ स्तुत्वैवं विरते शक्रे भगवान् सुमतिप्रभुः । सर्वभाषानुगामिन्या प्रारेभे देशनां गिरा ॥ २२७ ॥ कृत्याकृत्यपरिज्ञानयोग्यतामभ्युपेयुषा । इह स्वकार्यमूढेन न स्थातव्यं शरीरिणा ॥ २२८ ॥ पुत्र- मित्र- कलत्रादेः शरीरस्यापि सत्क्रिया । परकार्यमिदं सर्वं न स्वकार्यं मनागपि ॥ २२९ ॥ एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे ॥ २३० ॥ अन्यैस्तेनार्जितं वित्तं भूयः सम्भूय भुज्यते । स त्वेको नरककोडे क्लिश्यते निजकर्मभिः ॥ २३१ ॥ दुःखदावाग्निभीष्मेऽस्मिन् विर्तते भवकानने । म्भ्रमीत्येक एवासौ जन्तुः कर्मवशीकृतः ॥ २३२ ॥ १ देवाः । २ जानुप्रमाणाः । ३ कुसुमानि । ४ सिंहासनम् । ५ भासां चयैः भामण्डलेनेत्यर्थः । ६ नेत्राणाम् । ७ म्रियते । ८ सञ्चितानि । ९ विस्तीर्णे १० पुनः पुनः भृशं च भ्रमति । 1 For Private & Personal Use Only अष्टप्रातिहार्य. गार्भता स्तुतिः एकत्व भावना गर्भिता सुमतिजिनदेशना ww.www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy