SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ऊर्मयोऽपि हि गण्यन्ते खयम्भूरमणोदधेः। तवातिशयपात्रस्य न पुनर्मादृशैर्गुणाः ॥ १९१॥ धमैकमण्डपस्तम्भ ! जगदुद्द्योतभास्कर ! । कृपावल्लीमहावृक्ष ! रक्ष विश्वं जगत्पते ॥ १९२॥ निवृतेः संवृतद्वारसमुद्धाटनकुञ्चिका । धन्यैः शरीरिभिर्देव! श्रोष्यते तव देशना ॥ १९३॥ मन्मनस्युवलादर्शसन्निभे भुवनेश्वर ! । त्वन्मूर्तिनित्यसङ्क्रान्ता भूयान्नितिकारणम् ॥ १९४ ॥ __इति स्तुत्वा हरि थमादायोत्प्लुत्य च क्षणात् । मङ्गलावामिनीपार्श्वे मुक्त्वा च खाश्रयं ययौ ॥१९५॥ जनन्यास्तत्र गर्भस्थे यदभृच्छोभना मतिः । स्वामिनो नाम सुमतिरित्यकापति पिता ततः॥१९६॥ धात्रीभिरिन्द्रादिष्टाभिाल्यमानो जगत्पतिः । शैशवं व्यतिचक्राम प्रतिपेदे च यौवनम् ॥ १९७॥ धनुःशतत्रयोत्तुङ्गः पीनस्कन्धो बभौ विभुः। आजानुलम्बिदोशाखः कल्पशाखीव जङ्गमः ॥१९८॥ खामिनः खच्छलावण्यकल्लोलिन्यां निरन्तरम् । ललनानां लुलन्ति स्म दृशः शफरिका इव ॥ १९९॥ भोग्यं कर्म निजं जानन् पित्रोरप्युपरोधतः । राज्ञां कन्याश्चारुरूपाः पर्यणेषीदथ प्रभुः ।। २००॥ जन्मतः पूर्वलक्षेषु गतेषु दशसु प्रभुः । भूभुजाऽप्यर्थितोऽत्यर्थ राज्यभारमुपाददे ॥ २०१॥ एकोनत्रिंशतं पूर्वलक्षाः सद्वादशाङ्गिकाः । राज्येऽनैषीत् सुखं स्वामी वैजयन्त इव स्थितः ॥२०२॥ खयम्बुद्धो बोधितश्च ततो लोकान्तिकामरैः । दीक्षेच्छुार्षिकं दानमदत्त सुमतिः प्रभुः॥२०३॥ अन्ते वार्षिकदानस्य वासवैश्चलितासनैः । दीक्षाभिषेको विदधे स्वामिनः पार्थिवैरपि ॥ २०४ ॥ अथाऽभयकरां नामाध्यारुह्य शिविकां विभुः। सुरा-ऽसुर-नृपोपेतः सहस्राम्रवणं ययौ ॥२०५॥ दोःशाखः भुजशाखः। २ द्वादशपूर्वाङ्गसहिताः । चतुरशीतिलक्षवषमित पूर्वाङ्गम्। ३ विजयन्तनामकविमाने स्थितो देव इव । FACASSAMROSA CONCATEG सुमतिजिन दीक्षा Jain Education Internal For Private & Personal use only T w .jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy