________________
विज्ञप्तो मङ्गलादेव्या तत्र चैवं महीपतिः। स्वामिन् ! मध्याह्नकृत्यानामति लाऽभवत् कुतः ॥ १६४॥ तयोविवादवृत्तान्तो राज्य राज्ञाऽप्यकथ्यत । गर्भप्रभावात् सुमती राज्यप्येवमभापत ॥ १६५॥ स्त्रीणां विवादो निर्णेतुं स्त्रीभिरेव हि युज्यते । तत् करिष्याम्यहं देव ! विवादच्छेदनं तयोः॥१६६ ॥ राज्ञा सविस्मयं देव्या सममागत्य पर्षदि । आनायिते ततस्ते तु पृष्टे पूर्ववदूचतुः ।। १६७ ॥ राज्ञी भाषामुत्तरं च विचार्यैवमवोचत । ज्ञानत्रयधरस्तीर्थकरोऽस्त्येष ममोदरे ॥ १६८ ॥ स प्रसूतो जगन्नाथोऽमुष्याशोकतरोस्तले । निर्णयं दास्यते तस्मात् प्रतीक्षेथामुभे अपि ॥१६९॥ ओमित्यूचे विमाता तु माता त्वेवमवोचत । अहमागमयिष्ये न महादेवि ! मनागपि ॥ १७० ॥ सर्वज्ञमाता भवती करोत्वद्यैव निर्णयम् । सपत्नीसात् करिष्यामि नेयत्कालं स्वमात्मजम् ॥ १७१॥ ततश्च मङ्गलादेवी निर्णीयैवमभाषत । कालक्षेपासहत्वेन नूनमस्या अयं सुतः॥ १७२ ॥ विदधात्युभयाधीने परपुत्र-धने यतः । तेनेह कालहरणं विमाता सहते खलु ॥ १७३ ।। आत्मपुत्रमुभर्यसात क्रियमाणं तितिक्षितम् । अक्षमा कालहरणं सहते जननी कथम् ॥ १७४ ॥ भद्रे ! न कालहरणं सहसे यन्मनागपि । तज्ज्ञातं तव पुत्रोऽयं गृहाण खगृहं व्रज ॥ १७५ ॥ एतस्यास्तनयो नायं पालितो लालितोऽपि हि । कोकिलायाः खल्वपत्यं काक्या पुष्टोपिकोकिलः॥१७६॥
योग्यसमयातिक्रमणम् । २ 'सुमतिः' इति भगवन्मातुःसुमङ्गलाया विशेषणम् । स्त्रीणामेव संल. मो०॥ भाषा त्रिषष्टि ५४ापूर्वपक्षः, उत्तरम् उत्तरपक्षः। ४ प्रतीक्षा करिये। ५ सपत्नीवशे करिष्यामि । ६ उभयाधीनम् ।
RECORLSCRECR
Jain Education in
For Private & Personal use only
MIT
www.jainelibrary.org