SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ सुमतिजिनमात्रा पुत्रवि|त्तार्थ विवद. स्योः मातृविमात्रोः विवादभअनम् रूप-लावण्य-सौभाग्यदासीकृतसुराङ्गना । दासीचके मुखेनेन्दुमपि सा वरलोचना ॥ १३६ ॥ विशदे रूप-लावण्ये तस्याश्चातिशयान्विते । परस्परमभूष्येतामङ्गुलीय-मणी इव ॥ १३७ ॥ पौलोम्येव महेन्द्रस्य नरेन्द्रस्य तया समम् । उपभुञ्जानस्य भोगानभवत् प्रीतिरक्षया ॥ १३८ ॥ ___ इतः पुरुषसिंहस्य वैजयन्तविमानगः । जीवः वायुस्त्रयस्त्रिंशदब्धिसङ्ख्यमपूरयत् ॥ १३९ ॥ श्रावणस्याथ शुक्लायां द्वितीयायां मघागते । मृगाङ्के मङ्गलादेव्याः कुक्षाववततार सः॥१४॥ ईक्षाश्चके तदानी च तीर्थजन्ममूचकान् । गजादीन् मङ्गलादेवी महास्वमांश्चतुर्दश ॥ १४१॥ भुवनत्रितयाधारभृतं गर्भ दधार तम् । निगूढं मङ्गला देवी निधानमिव मेदिनी ॥१४२॥ ___ इतश्च कश्चिदप्याढ्यस्ततः पुर्या वणिज्यया । सग्भार्याद्वययुतो दूरदेशान्तरं ययौ ॥१४३ ॥ तस्य मार्गस्थितस्यैवैकस्यां समभवत् सुतः । उभाभ्यां च सपत्नीभ्यां निर्विशेषमवयत ॥ १४४॥ अर्जयित्वा धनं देशान्तराद् व्यावृत्तवानथ । वर्त्मन्येव विपेदे स दैवस्य विषमा गतिः॥१४५॥ तस्य द्वे अपि ते भार्ये उंदश्रुवदने शुचा । विरचय्याग्निसंस्कारं चक्राते औलदेहिकम् ।। १४६ ॥ ततः पुत्रश्च वित्तं च मदीये इति भाषिणी । पुत्रमात्रा सहान्या तु मायिन्यकलहायत ॥१४७॥ क्षेममेकाऽपरा योगमिच्छन्त्यौ पुत्र-वित्तयोः । अयोध्यामीयतुः शीघ्रं सूनोर्मातृ-विमातरौ ॥१४८॥ तत्र च स्वा-ऽन्यकुलयोर्धर्माधिकरणेऽपि च । डुढौकाते उभे छिन्नो न तद्वादो मनागपि ॥ १४९॥ भूषितौ । २ इन्द्राणी । ३ अक्षया प्रीतिः । * 'मानतः संबृ०॥1 °णस्य च शु° संवृ०॥ ४ रष्टवती। ५ गुप्तं यथा स्यात् तथा । ६ अश्रुपूर्णमुखे, द्विवचनमेतत् । ७ मृतस्य मरणतिथौ दीयमानं पिण्डोदकादि । ८ कलहं चकार । ९ न्यायमन्दिरे।। Jain Education For Private & Personal Use Only www.jainelibrary.org, II
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy