________________
चातुर्गतिकभववासर्ज
महत् सत्त्वं महद् धैर्य महती धीर्महद् बलम् । प्रव्रज्याया उपात्ताया यदाऽऽ जन्मापि पालनम् ॥१०८॥
तदाकर्ण्य कुमारोऽपि ससौष्ठवमभाषत । पूज्यपादा एवमेतत् प्रव्रज्येयं यदीदृशी ॥ १०९॥ किन्तु विज्ञपयाम्येकमंशः शततमोऽपि किम् । भववाससमुत्थानां कष्टानामिह दृश्यते ॥११॥ तथाहि दूरे तिष्ठन्तु साक्षान्नरकवेदनाः । वचनैर्दुर्वचा एव दुःश्रवाः श्रवणैरपि ।। १११ ॥ इहापि दृश्यते लोके तिरश्चामकृतागसाम् । नितान्तं बन्धन-च्छेद-तर्जनाधतिदुःसहम् ॥११२ ॥ कुष्ठादिव्याधिजा बाधा गुप्तिवासोऽङ्गकर्तनम् । त्वचनं ज्वालनं शीर्षच्छेदादि च नृणामपि ॥११३॥ विप्रयोगः प्रियजनैः शत्रुतश्च पराभवः । च्यवनज्ञानजं दुःखं दुःसहं नाकिनामपि ॥ ११४ ॥
तेनैवमुक्ती पितरौ साधु साध्विति वादिनौ । मुदितावनुमेनाते व्रतादानाय तं ततः ॥११५ ॥ सप्रमोदं ततः पित्रा कृतनिष्क्रमणोत्सवः । दीक्षार्थी तं मुनि सोऽगात् फलार्थीव वनस्पतिम् ॥ ११६ ॥ आददे मुनिपादान्ते सामायिकमुदीरयन् । प्रवज्यां पुरुषसिंहो भवाब्धितरणे तरीम् ॥ ११७॥ प्रमादपरिहारेण रक्षेच्छुः सर्वदेहिनाम् । स दृढं पालयामास प्रव्रज्यां राज्यवन्नृपः॥ ११८ ।। विंशतिस्थानकानां च स्थानः कतिपयैरपि । अर्जयामास विशदं तीर्थकृन्नामकर्म सः॥ ११९ ॥ चिरं विहृत्य कालं च कृत्वाऽनशनकर्मणा । विमाने वैजयन्ते स महर्द्धिरमरोऽभवत् ॥ १२० ॥
इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे भरतनामनि । विनीतेत्यस्ति नगरी गरीयासम्पदास्पदम् ॥ १२१ ॥ १ आ जन्म जीवितपर्यन्तम् ॥ २ निष्कमणं प्रवज्या । ३ नावम् । ४ उत्तमसम्पदा स्थानम् ।
-CRAMMARCLEARCLICA
Jain Education
a
l
For Private & Personal use only
www.jainelibrary.org