________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
तृतीयं पर्व तृतीयः
सर्ग: सुमतिखामिचरितम् ।
॥३१॥
महासत्व! महाबुद्धे! विवेकिन् ! दृढनिश्चय! । योग्योऽसि व्रतभारस्य दास्यामस्त्वत्समीहितम् ॥ ९५॥ आपृच्छस्व परं गत्वा पितरौ पुत्रवत्सलौ । यतस्तावेव जगति गुरू प्रथमतो नृणाम् ॥ ९६ ॥ ततः स गत्वा पितरौ प्रणम्य च कृताञ्जलिः । मां व्रतायानुमन्येथामेवमुच्चैव्यजिज्ञपत् ॥ ९७॥
इत्युचतुश्च तौ युक्ता प्रव्रज्या वत्स! किन्त्विह । उद्घोढव्यः पञ्चमहाव्रतभारोऽतिदुर्वहः ॥ ९८॥ निर्ममत्वं स्वदेहेऽपि विरती रात्रिभोजनात् । द्विचत्वारिंशता दोषमुक्तः पिण्डश्च भोजने ॥ ९९ ॥ नित्योयुक्तो निर्ममश्चाकिञ्चनो गुणतत्परः । धारयेत् समितीः पञ्च तिस्रो गुप्तीश्च सर्वदा ॥१०॥ मासादिकाश्च प्रतिमा विधातव्या यथाविधि । अभिग्रहा द्रव्य-क्षेत्र-काल-भावानुगा अपि ॥१०१॥ यावजीवितमस्नानं भूशय्या केशलुञ्चनम् । शरीरस्याप्रतिकर्म वासो गुरुकुले सदा ॥ १०२॥ परीषहोपसर्गाणां सहनं सानुमोदनम् । अष्टादशानां शीलाङ्गसहस्राणां च धारणम् ।। १०३ ॥ प्रव्रज्यायामुपात्तायां सुकुमार कुमारक!। तदेते लोहचणकाचर्वणीया निरन्तरम् ॥ १०४॥ बाहुभ्यां तरणीयोऽयमपारो मकराकरः। निशातखड्गधारासु कार्य चक्रमणं क्रमैः ॥ १०५॥ पातव्या ज्वलनज्वाला मेरुस्तोल्यस्तुलाधृतः । उत्पूरा च प्रतिश्रोतस्तरणीया सरिद्वरा ।।१०६॥ एकाकिना च जेतव्यं बलवद्विद्विपद्धलम् । विधातव्यो भ्रमच्चके राधावेधश्च खल्वहो। ॥ १०७ ॥
॥देशभिः कुलकम् ॥ । वहनीयः । २ भिक्षाचर्यायाः द्विचत्वारिंशद् दोषाः, तद्यथा-आधाकर्मिकम् , औद्देशिकम् इत्यादि । ३ असंस्कारः।। ४ संयमसाधनायां बाधकरूपाः द्वाविंशतिः परीषहाः क्षुधापिपासादयः। * चक्ररा संवृ०॥ चतुर्भिः कलापकम् संवृ० मो०॥
प्रवज्याचा दुष्करत्वम्
॥३११॥
Jain Education In
DL
For Private & Personal use only
www.jainelibrary.org.