________________
दशधा यतिधर्मः
GROSSSCORES ACROSSBOS
संसारसिन्धुतरणे यानपात्रमनर्गलम् । भगवद्भिः समाम्नातो यतिधर्मोऽयमुच्चकैः ।। ८१॥ संयमः सूनृतं शौचं ब्रह्माकिञ्चनता तपः । शान्तिार्दवमृजुता मुक्तिश्च दशधेति सः।। ८२ ॥ प्राणातिपातव्यावृत्तिरूपः संयम ईरितः । मृपावादपरीहारस्वरूपं सूनृतं पुनः ॥ ८३ ॥ शौचं संयमसंशुद्धिरदत्तादानवर्जनात् । उपस्थसंयमो ब्रह्म नवगुप्तिसमन्वितम् ॥ ८४ ॥ निर्ममत्वं शरीरादावप्यकिञ्चनता मता । तपस्तु द्विविधं वाह्यमान्तरं चेति तद् यथा ॥ ८५ ॥ अनशनमौनोदय वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्लेशो लीनतेति बहिस्तपः॥८६॥ प्रायश्चित्तं वैयावृत्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभध्यानं पोढेत्याभ्यन्तरं तपः॥ ८७॥ शान्तिः शक्तावशक्ती वा सहनं क्रोधनिग्रहात् । मददोषपरीहारो मार्दवं माननिर्जयात ॥ ८८॥ मायाजयादार्जवं वामनः-कायैरवक्रता । मुक्तिश्च तृष्णाविच्छेदो बाह्या-ऽऽभ्यन्तरवस्तुषु ॥ ८९ ॥ इत्थं दशविधो धर्मः संसारोत्तारणक्षमः। जगत्यवाप्यते पुण्यैश्चिन्तामणिरिवानघः॥९॥
श्रुत्वा पुरुषसिंहोऽपि सप्रश्रयमदोऽवदत् । रोरस्येव निधानं मे धर्मोऽयं साधु दर्शितः॥९१॥ किन्त्वसौ गृहवासस्थैरनुष्ठातुं न शक्यते । गृहवासो हि संसारतरोर्दोहदमुत्तमम् ॥ ९२ ॥ प्रव्रज्यां धर्मराजस्य राजधानी प्रयच्छ मे । भगवन् ! भवदुर्गामवासादुद्विग्नवानहम् ।। ९३ ॥ अथोचे भगवानेवं सूरिविनयनन्दनः। मनोरथोऽपि ते साधुः साधकः पुण्यसम्पदाम् ॥ ९४ ॥
१ उदरस्य ऊनता-भोजनसमये एकट्यादिभिः कवलैः उदरं ऊनं रक्षणीयम् । २ लीनता अङ्गोपाङ्गानां अचञ्चलता । ३ व्युत्सर्गः | आत्मशुद्धिप्राप्तये देहादिकं सहायकरूपं आत्मसाधनहेतुं मत्वाऽपि देहादिपरभावं प्रति उपेक्षावृत्तिः। ४ रोरः रक्तः, भाषा 'रांक' ।
Jain Education Intel
For Private & Personal Use Only
Aluww.jainelibrary.org