________________
त्रिषष्टिशलाका पुरुषचरिते महाकाव्ये
तृतीयं पर्व तृतीयः सर्गः सुमतिखामिचरितम्
॥३१०॥
सोऽथेति दध्यौ वेश्यान्ते सतीत्वस्येव पालनम् । तस्कराणां सन्निधाने निधानस्येव गोपनम् ॥ ६७॥ मार्जारयुनामभ्यणे पीयूषस्येव रक्षणम् । शाकिन्याः प्रातिवेश्मिक्ये खस्येव क्षेमकारिता ॥६८॥ रूपस्याप्रतिरूपस्य वयसो मध्यमस्य च । उन्मादहेतावुदयेऽमुष्याहो! व्रतधारणम् ॥ ६९॥ त्रिभिर्विशेषकम् ॥ हिमं सह्येत हेमन्ते ग्रीष्मे च तपनातपः । झञ्झावातोऽपि वर्षासु न पुनयौवने मरः ॥ ७० ॥ तदद्य दिष्ट्या दृष्टोऽयं पुण्यैः पुण्यानुबन्धिभिः। प्रीतिदायी गुरुरिव मातेव च पितेव च ॥ ७१॥ कुमारश्चिन्तयित्वैवमुपसृत्य च सत्वरम् । ववन्दे हृदयानन्दं मुनि विनयनन्दनम् ॥ ७२ ॥ कल्याणकन्दलोद्भेदमेघवृष्टिसमानया । मुनिरानन्दयामास धर्मलाभाशिषाऽथ तम् ॥ ७३ ॥ भूयः कुमारस्तं नत्वा मुनिमेवमभाषत । चित्रीयसे व्रतधरो नवयौवनवानपि ॥ ७४ ॥ विषयाणां विमुखोऽसि वयस्यत्रापि यत् ततः । विद्मस्तेषां दुर्विपाकं किम्पाकानामिव ध्रुवम् ।। ७५ ॥ सारमत्र हि संसारे किश्च मन्ये न किञ्चन । इत्थं तत्परिहारायोतिष्ठन्ते यद् भवादृशाः॥ ७६ ॥ संसारतरणोपायं तन्ममापि समादिश । मां नय त्वं खेन पथा सार्थवाह इवाध्वगम् ॥ ७७॥ क्रीडार्थमागतेनेह त्वं प्राप्तोऽसि महामुने! । कर्करान्वेषकेणेव माणिक्यं पर्वतावनौ ।। ७८॥ एवमुक्तः कुमारेण मारारिः स महामुनिः । आबभाषे नवाम्भोदघोषगम्भीरया गिरा ॥ ७९ ॥
यौवनैश्वर्य-रूपादिमदस्थानानि शान्तये । मात्रिकस्येव भूतानि पदातित्वाय साधनात् ॥ ८॥
नवप्रसूतगवीक्षीरं पीयूषम् , धारोष्णं पयः अमृतम् , अतः पीयूषं दुग्धम् । २ आश्चर्य करोषि । ३ चेष्टन्ते, प्रयतन्ते इत्यर्थः । * साधु ते संबृ० । साधने सङ्घ० ॥
॥३१०॥
Jain Education Intel
For Private & Personal use only
Inmwww.jainelibrary.org