SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ SECONDONESCOROUSLUGUST इत्युक्त्वा भृपतिः सद्यो भीतानामभयं ददौ । घोषयामास चाऽमारिं डिण्डिमास्फालपूर्वकम् ॥ ५४॥ अष्टप्रकारपूजाभिर्दिव्यैः सङ्गीतकैरपि । अष्टाहिकोत्सवानुच्चैः प्रतिचैत्यं चकार च ॥ ५५॥ __ हृष्टा तैर्दोहदैः पूर्णैः पूर्णेन्दुविशदानना । फलं वल्लीव समये पुत्ररत्नमसूत सा ॥५६॥ यथाकाममथाऽर्थिभ्यश्चिन्तामणिरिवाऽर्थितम् । ददावाघोषणापूर्व नरेश्वरशिरोमणिः॥ ५७ ॥ राज्ञा महोत्सवश्चके हृदयाब्धिनिशाकरः । नागरैरपि तदनु स्वतोऽपि स्वजनैरिव ॥ ५८॥ राज्ञीखमानुसारेण कुमारस्य महीभुजा । विदधे पुरुषसिंह इति नाम मनोरमम् ॥ ५९॥ लाल्यमानः स धात्रीभिः कुमारो ववृधे क्रमात् । मातुः पितुः प्रजानां च सममेव मनोरथैः ॥६॥ कला जग्राह सकलाः स इन्दुरिव पार्वणः । प्रापच्च यौवनं लीलावनं मकरलक्ष्मणः ॥ ६१ ॥ आत्मानुरूपा रूपेण कलाभिश्च कुलेन च । उपायताऽऽयेतभुजः सोऽष्टौ कन्याः क्षमाभुजाम् ॥ ६२॥ सुखं वैषयिक ताभिरप्सरोभिरिवामरः । यथाक्षणं रममाणोऽन्वभूद् विजयसेनभूः ॥६३ ॥ ऋतुः साक्षादिव मधुः साक्षान्मधुसखोऽथवा। सोऽगात् क्रीडितुमन्येद्युः क्रीडोद्यानं यदृच्छया॥६४॥ तत्रापश्यच्च समवसृतं विनयनन्दनम् । नाम सूरि जितानङ्गं रूपेण च शमेन च ।। ६५॥ तं तस्य पश्यतः पीतामृतस्येव विलोचने । हृदयं चापराण्यङ्गान्यपि च व्यकसन्निव ॥६६॥ १ असूत जनयामास । २ मनोरथसमकालमेव, यथा मनोरथा वर्धमानाः तथा पुत्रोऽपि वर्धमानः। ३ मकरलक्ष्मा कामदेवः।। 'उपायत' इति क्रियापदम् । ५ आयतभुजः दीर्घभुजः । ६ मधुः वसन्तसमयः । ७ मधुः सखा यस्य स मधुसखः कामदेवः।। 1८ विकसितानि जातानि। SAMACARROADCASCOCACACROCC Jain Education into For Private & Personal use only w w.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy