SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ तृतीयं पर्व तृतीयः त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सर्गः सुमतिखामि-. चरितम् । ॥३०८॥ इयं का? पारिपाश्विक्यः काश्चैतस्या अमूरिति । ज्ञातुं सुदर्शना देवी सौविदल्लं समादिशत् ॥ १२॥ तत् पृष्ट्वा सौविदल्लोऽपि समेत्यैवं व्यजिज्ञपत् । श्रेष्ठिनो नन्दिषेणस्य प्रेयसीयं सुलक्षणा॥१३॥ सुलक्षणाया द्वौ पुत्रौ प्रत्येकं च तयोरिमाः । वध्वश्चतस्रो दासीवच्छश्रूशुश्रूषणोद्यताः॥१४॥ श्रुत्वा सुदर्शना तच्च चेतस्येवमचिन्तयत् । इयं हि श्रेष्ठिनी श्रेष्ठा या पुत्रमुखमीक्षते ॥ १५॥ यस्याश्चैताः स्नुषीभृय रूपवत्यः कुलस्त्रियः । नागकन्या इवाऽष्टापि सेवां कुर्वन्ति सर्वदा॥१६॥ न सूनुन स्नुषा यस्या धिग् धिग् मां तामपुण्यकाम् । पत्युहृदयभृताया अपि मे जीवितं वृथा ॥१७॥ इतस्ततः क्षिपन् पाणी समन्ताद् धूलिधूसरः । अङ्के क्रीडति धन्यानां पुत्रो वृक्षे प्लवङ्गवत् ॥ १८॥ असञ्जातफला वय इवाऽतोया इवाऽऽपगाः । निन्दनीयाः शोचनीया योषितस्तनयं विना ॥ १९ ॥ किमन्यैरुत्सवैस्तासां? न यासां स्युर्महोत्सवाः । सूनुजन्म-नाम-चूला-विवाहकरणादयः॥२०॥ विचिन्त्येवं म्लानमुँखी पद्मिनीव हिमादिता । ययौ सुदर्शना देवी सखेदा सदनं निजम् ॥ २१॥ अपि प्रियसखीस्तत्र विसृज्य शयनीयके । निःसहा मुक्तनिःश्वासा व्याधितेव पपात सा ॥ २२ ॥ नाऽभुक्त न बभाषे च प्रतिकर्म च नाऽकरोत् । तस्थौ किन्तु मनःशून्या रत्नेपाश्चालिकेव सा ॥ २३ ॥ तां तथावस्थितां ज्ञात्वा परिवारमुखान्नृपः। उपेत्यैवमभाषिष्ट प्रेमपेशलया गिरा ॥२४॥ स्वाधीने मय्यपि सदा किमपूर्ण समीहितम् ? । देवि! ताम्यसि येनैवं हंसीव पतिता मरौ ॥२५॥ १ सौविदलम् अन्तःपुररक्षकं कर्मकरम् । २ स्नुषा पुत्रवधूः । * °मुखा प° संवृ०॥ ३ हिमादिता शीतपीडिता । ४ व्याधिता व्याधिपीडिता । ५ रननिर्मिता पुत्तलिका इव । ६ मरुदेशे जलरहिते शुक्के । ॥३०८॥ Jain Education a l For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy