SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। सुमतिस्वामिचरितम् । नमः सुमतिनाथाय प्रकृष्टज्ञानहेतवे । अपारसंसारमहासागरोत्तारसेतवे ॥१॥ तत्प्रसादात् तचरित्रं यथावत् कीर्तयिष्यते । भव्यसंसारिकल्याणतरुकुल्याम्बुसन्निभम् ॥२॥ अत्रैव जम्बूद्वीपेऽस्ति प्राग्विदेहविशेषकः । ऋद्ध्या पुष्कलया राजन् विजयः पुष्कलावती ॥३॥ विचित्रचैत्य-हादिध्वजदन्तुरिताम्बरम् । तत्र शङ्खपुरं नाम पुरमस्त्यतिसुन्दरम् ॥ ४॥ विजयी तत्र विजयसेन इत्यभवन्नृपः । शोभामात्रमभूत् सेना यस्य दोर्वीयशालिनः ॥५॥ सकलान्तःपुरस्त्रैणभूषणं तस्य चाऽभवत् । प्रिया सुदर्शना नामेन्दुलेखेव सुदर्शना ॥६॥ रममाणस्तया साध रत्येव कुसुमायुधः । निनाय कालं विजयसेनः प्रथितवैभवः॥ ७॥ ययावन्येधुरुधानमुद्यते क्वचिदुत्सवे । सर्वा सपरीवारो जनः सर्वोऽपि नागरः॥८॥ वपुष्मतीव राज्यश्रीश्छत्र-चामरलाञ्छिता । आरुह्य हस्तिनी तत्राऽगाद् देव्यपि सुदर्शना ॥९॥ अपश्यत् तत्र चाऽनय॑भूषणश्रीभिरष्टभिः । दिक्कन्याभिरिवोपेतां वधृभिः कामपि स्त्रियम् ॥ १०॥ उपास्यमानां तां ताभिरप्सरोभिः शचीमिव । दृष्ट्वा सुदर्शना देवी भृशं चित्ते विसिष्मिये ॥११॥ १ कुल्या नाम नदी, अथवा कुल्या जलवाहिनी सारणी । भाषायां 'नीक धोरियो' इति । २ पुष्कलया अतिप्रभूतया । ३ राजन् शोभमानः। ४ दोर्-भुजाद्वयम् । निपुत्रताया दुःखम् त्रिषष्टि, ५३ Jain Education in For Private & Personal Use Only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy