SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ तृतीयं पर्व द्वितीयः त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सर्ग: अभिनन्दन जिनचरितम् । ॥३०७॥ अष्टाङ्ग्याऽष्टादशाब्द्योने पूर्वलक्षेऽथ केवलात् । ज्ञात्वा निर्वाणकालं स्वं सम्मेताद्रिं ययौ विभुः॥१६९॥ समं मुनिसहस्रेण प्रपन्नानशनः प्रभुः। मासं तस्थौ सुरैः सेन्ट्रैः सेव्यमानो नृपैरपि ॥ १७०॥ शैलेशीध्यानमास्थाय भवोपग्राहिकर्मभित् । सिद्धानन्तचतुष्कः सन् भगवानभिनन्दनः॥१७१ ॥ वैशाखस्य सिताष्टम्यां पुष्यस्थे रजनीकरे । समं मुनिसहस्रेणाऽपुनरावृत्त्यगात् पदम् ॥ १७२ ।। युग्मम् ॥ कौमारे पूर्वाणां लक्षाःसहार्धा द्वादशागमन । लक्षाणि सार्धषट्त्रिंशद् राज्येऽष्टाङ्गयुतानि च ॥ १७३॥ अष्टाङ्गोनं पूर्वलक्षं प्रव्रज्यायामिति प्रभोः । पञ्चाशत्पूर्वलक्षाणि यावदायुरजायत ॥ १७४॥ सम्भवस्वामिनिर्वाणादभिनन्दननिर्वृतिः । समुद्रकोटिलक्षेषु व्यतीतेषु दशस्वभूत् ॥ १७५ ॥ शक्रश्चक्रेऽङ्गसंस्कारं स्वामिनो तिनामपि । दंष्ट्रा-रदा-ऽस्थि जगृहः पूजनाय सुरा-ऽसुराः॥१७६ ॥ कुर्वन्तोऽथाऽष्टासिका शाश्वतार्हद्विम्बानां तेऽभ्येत्य नन्दीश्वरान्तः खं खं लोकं सामरा जग्मुरिन्द्रास्ते च स्वां स्वां राजधानी नरेन्द्राः ॥ १७७॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि अभिनन्दनस्वामिचरितवर्णनो नाम द्वितीयः सर्गः॥ ॥३०७॥ *लक्षे च के संवृ०॥ यतः पुनरागमनं न जायते तद् अपुनरावृत्ति । अपुनरावृत्तिपदं-मोक्षः। २ समुद्रकोटिलक्षेषु ४ सागरोपमकोटिलक्षेषु । समुद्रः-सागरोपमं कालविशेषः । । °रदादि ज° खंता॥ Jain Education Intel For Private & Personal use only |www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy