SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Jain Education अथोत्तस्थौ जगन्नाथो मध्यवप्रमुपेत्य च । ईशानदिक्स्थिते देवच्छन्दके समुपाविशत् ।। १५६ ।। स्वाम्यङ्घ्रिपीठस्थो वज्रनाभो गणधरो व्यधात् । लोकैः केवलिवज्ज्ञातो देशनां श्रुतकेवली ॥ १५७ ॥ पूर्णद्वितीयपौरुष्यां व्यसृजत् सोऽपि देशनाम् । नत्वाऽर्हन्तं ययुः स्वं स्वं स्थानं सर्वे सुरादयः ॥ १५८ ॥ तीर्थे यक्षेश्वरस्तत्र श्यामो द्विरदवाहनः । दोर्दण्डौ दक्षिणौ विभ्रन्मातुलिङ्गाऽक्षसूत्रिणौ ॥ १५९ ॥ वामौ च धारयन् बाहू नकुला -ऽङ्कुशधारिणौ । सदा सन्निहिता भर्तुरभूच्छासनदेवता ॥ १६० ॥ युग्मम् ॥ कालिका च तथोत्पन्ना श्यामवर्णाऽम्बुजासना । दक्षिणौ धारयन्ती तु भुजौ वरद - पाशिनौ ।। १६१ ॥ नागा-ऽङ्कुशधरौ बाहू दधाना दक्षिणेतरौ । पारिपार्श्विक्यभून्नित्यं भर्तुः शासनदेवता ॥ १६२ ॥ युग्मम् ॥ ततः स्वाम्यप्यतिशयैश्चतुस्त्रिंशद्भिरन्वितः । व्यहरद् बोधयन् जन्तून् ग्रामा-ssकर- पुरादिषु ॥ १६३॥ साधुत्रिलक्षी साध्वीषलक्षी त्रिंशत्सहस्रयुक् । शतानि चाऽष्टनवतिरवधिज्ञानशालिनाम् ॥ १६४ ॥ सहस्रं पूर्विणां सार्धं मनःपर्ययिणां पुनः । एकादश सहस्राणि सपञ्चाशच्च षट्शती ॥ १६५ ॥ चतुर्दश सहस्राणि केवलज्ञानधारिणाम् । सहस्रा वैक्रियलब्धिमतामेकोनविंशतिः ॥ १६६ ॥ एकादश सहस्राणि वादलब्धिमतां पुनः । लक्षद्वयं श्रावकाणामष्टाशीतिसहस्रयुक् ।। १६७ ।। श्राविकाणां पञ्चलक्षी सप्तविंशिसहस्रयुक् । अजायन्त जगद्भर्तुरुर्व्यां विहरतः सतः ।। १६८ ।। ''दिस्थितो दे' संवृ० ॥ १ पारिपार्श्विकी पार्श्वस्था समीपवासिनी । * For Private & Personal Use Only यक्ष-पक्षिण्यौ अभिनन्दनजिन परिवारादिकम् wwww.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy