SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि तृतीयं पर्व द्वितीया शलाकापुरुषचरिते । सर्गः महाकाव्ये अभिनन्दन जिन ॥३०६॥ | चरितम्। ISROGRESSINGERSECRETC संसारे दुःखदावाग्निज्वलज्ज्वालाकरालिते । वने मृगार्भकस्सेव शरणं नास्ति देहिनः॥१४३ ॥ अष्टाङ्गेनाऽऽयुर्वेदेन जीवातुभिरथागंदैः । मृत्युञ्जयादिभिर्मत्रैखाणं नैवाऽस्ति मृत्युतः ॥१४४॥ खड्गपञ्जरमध्यस्थश्चतुरङ्गचमूवृतः । रङ्कवत् कृष्यते राजा हठेन यमकिकरैः॥१४५॥ यथा मृत्युप्रतीकारं पशवो नैव जानते । विपश्चितोऽपि हि तथा धिक् प्रतीकारमृढताम् ॥ १४६ ॥ येऽसिमात्रोपकरणाः कुर्वते मामकण्टकाम् । यमधूभङ्गभीतास्तेऽप्यास्ये निदधतेऽजलीः॥१४७॥ मुनीनामप्यपापानामसिधारोपमैव्रतैः । न शक्यते कृतान्तस्य प्रतिकतुं कदाचन ॥१४८॥ अशरण्यमहो! विश्वमराजकमनायकम् । यदेतदप्रतीकारं ग्रस्यते यमरक्षसा ॥ १४९॥ योऽपि धर्मप्रतीकारो न सोऽपि मरणं प्रति । शुभां गतिं ददानस्तु प्रतिकर्तेति कीर्त्यते ॥१५॥ प्रव्रज्यालक्षणोपायमादायाक्षय॑शर्मणे । चतुर्थपुरुषार्थाय यतितव्यमहो! ततः॥१५१॥ तया देशनया प्रायो नरा नार्यः प्रवव्रजुः। गणेशा वज्रनाभाद्याः षोडशाग्रमभृच्छतम् ॥१५२॥ अनुयोग-गणानुशे तेषां दत्त्वा यथाविधि । अनुशिष्टिमयीं धर्मदेशनां विदधे प्रभुः॥१५३ ॥ जन्म-व्यय-ध्रौव्यमयीं खाम्येभ्यस्त्रिपदी जगौ । जग्रन्थु‘दशाङ्गी ते तत्रिपद्यनुसारतः॥१५४ ॥ देशनां पूर्णपौरुष्यां व्यसृजत् खाम्यथो बलिम् । राजानीतं क्षिप्वाऽगृहन् देवाभूपा जनाः क्रमात् ।। १५५॥ जीवातुः जीवनौषधम् जीवनोपायः । २ अगदो नाम औषधम् । गदो रोगः, तनाशकारी अगदः । *"स्ति देहिनः संल०॥ ३ विपश्चितो विद्वांसः । ४ प्रतीकारः प्रत्युपायः दुःखहेतुनिराकरणम् । ५ भसिधारोपमं महातीक्ष्णं दुष्करम् । ६ कक्षज्यं नाम सेतुं नाशयितुम् अशक्यम् , यन्त्र कदापि क्षीणं कर्तुं शक्यते । ७ स्वामी एभ्यः गणधरेभ्यः । ॥३०६॥ Jain Education into For Private & Personal Use Only meww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy