SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte ततश्चतुर्विधः सङ्घः ससुरा - सुर- मानुषः । सम्प्रविश्य यथाद्वारं यथास्थानमुपाविशत् ॥ १२८ ॥ भगवन्तं नमस्कृत्य शक्रो विरचिताञ्जलिः । रोमाञ्चितवपुः स्वामिस्तवनं प्रास्तवीदिति ॥ १२९ ॥ मनो-चचः-कायचेष्टाः कष्टाः संहृत्य सर्वथा । श्लथत्वेनैव भवता मनःशल्यं वियोजितम् ॥ १३० ॥ संयतानि न चाऽक्षाणि नैवोच्छृङ्खलितानि च । इति सम्यक्प्रतिपदा त्वयेन्द्रियजयः कृतः ॥ १३१ ॥ योगस्याष्टाङ्गता नूनं प्रपञ्चः कथमन्यथा । आबालभावतोऽप्येष तव सात्म्यमुपेयिवान् १ ॥ १३२ ॥ विषयेषु विरागस्ते चिरं सहचरेष्वपि । योगे सात्म्यमदृष्टेऽपि स्वामिन्निदमलौकिकम् ॥ १३३ ॥ तथा परे न रज्यन्त उपकारपरे परे । यथाऽपकारिणि भवानहो ! सर्वमलौकिकम् ॥ १३४ ॥ हिंसका अप्युपकृता आश्रिता अप्युपेक्षिताः । इदं चित्रं चरित्रं ते के वा पर्यनुयुञ्जताम् १ ॥ १३५ ॥ तथा समाधौ परमे त्वयाऽऽत्मा विनिवेशितः । सुखी दुःख्यस्मि नास्मीति यथा न प्रतिपन्नवान् ॥ १३६ ॥ ध्याता ध्यानं तथा ध्येयं त्रयमेकात्मतां गतम् । इति ते योगमाहात्म्यं कथं श्रद्धीयतां परैः १ ॥ १३७॥ स्तुत्वैवं विरतेश स्वामी गम्भीरया गिरा । आयोजनविसर्पिण्या प्रारेभे देशनामिति ॥ १३८ ॥ संसारोऽयं विपत्खानिरस्मिन् निपततः सतः । पिता माता सुहृद् बन्धुरन्योऽपि शरणं नहि ।। १३९ ।। इन्द्रोपेन्द्रादयोऽप्यत्र यन्मृत्योर्यान्ति गोचरम् । अहो ! तदन्तकातङ्के कः शरण्यः शरीरिणाम् १ ॥ १४० ॥ पितुर्मातुः स्वसुर्भ्रातुस्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः कर्मभिर्यमसद्मनि ॥ १४१ ॥ शोचन्ति खजनानन्तं नीयमानान् स्वकर्मभिः । नेष्यमाणं तु शोचन्ति नाऽऽत्मानं मूढबुद्धयः ॥ १४२ ॥ पर्यनुयुञ्जताम् आचरितुं शक्नुयुः । २ विसर्पिणी प्रसरणशीला । ३ त्राणरहितः अशरणः निराधारः । For Private & Personal Use Only अशरण भावनागर्भा जिनदेशना www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy