SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते महाकाव्ये ॥३०५ ॥ Jain Education प्रभुं नत्वा ततः शक्रोऽन्येऽपीन्द्राः सपरिच्छदाः । स्थानं निजनिजं जग्मुः प्रावृषि प्रोषिता इव ॥ ११५ ॥ द्वितीयेऽन्ययोध्यायामिन्द्रदत्तस्य भूभुजः । सदने विद्धे स्वामी परमानेन पारणम् ॥ ११६ ॥ वसुधारा पुष्पवृष्टिवृष्टिर्गन्धोदकस्य च । खे दुन्दुभिध्वनिलोत्क्षेपश्च विदधेऽमरैः ॥ ११७ ॥ अहो! दानमहो ! दानं सुदानमिति चोच्चकैः । जुघुषे हर्ष विवशैः सुरा--सुर-नरैस्तदा ॥ ११८ ॥ ततोsन्यत्र ययौ स्वामी स्थाने च स्वामिपादयोः । रत्नपीठं व्यधादिन्द्रदत्तोऽचितुमनाः सदा ॥ ११९ ॥ छद्मस्थो व्यहरत् स्वामी सहमान: परीषहान् । अष्टादश समा यावद् विविधाभिग्रहोद्यतः ॥ १२० ॥ विहरन्नन्यदा नाथः सहस्राम्रवणं ययौ । कृतषष्ठः प्रियालस्याऽधोऽस्थात् प्रतिमया ततः ॥ १२१ ॥ - द्वितीयशुक्लध्यानान्ते घातिकर्मक्षये सति । पौषशुक्लचतुर्दश्यामभीचिस्थे निशाकरे ।। १२२ ॥ अमलं केवलज्ञानमाविरासीजगत्पतेः । नारकाणामपि बाधानिषेधनमहौषधम् ॥ १२३ ॥ चतुःषष्टिरथैत्येन्द्रा विधिवद् विदधुः प्रभोः । उच्चैः समवसरणं देशे योजनमात्र के ।। १२४ ॥ देवैः सञ्चार्यमाणेषु स्वर्णाब्जेषु क्रमौ दधत् । स्वामी समवसरणं प्रागुद्वारा प्राविशत् ततः ॥ १२५ ॥ स धनुर्द्विशतीकं तु गव्यूतद्वयमुच्छ्रितम् । तत्र प्रदक्षिणीचक्रे चैत्यवृक्षं जिनेश्वरः ॥ १२६ ॥ नमस्तीर्थायेति वदन् देवच्छन्दस्य मध्यतः । सिंहासनमलञ्चक्रे प्राङ्मुखः परमेश्वरः ॥ १२७ ॥ १ प्रोषिताः प्रवासिनः । २ चेलं वस्त्रम्, उत्क्षेपः ऊर्ध्वतः क्षेपणम् । * दानं महादानं सं० ॥ ३ जुघुषे उच्चैः घोषणा विहिता । + 'चलं ज्ञा' संवृ० ॥ ४. आवि: प्रकटम् आसीद् बभूव । ५ अथ अनन्तरम् एत्य भागत्य । ६ प्राग्द्वारा पूर्वदिशास्थितेन द्वारेण । For Private & Personal Use Only तृतीयं पर्व द्वितीयः सर्गः अभिनन्दनजिन चरितम् । अभिनन्दन जिन केवल ज्ञानम् ॥३०५ ॥ w.www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy