SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte अलं संसारवासेन नाथ ! तीर्थं प्रवर्तय । संसारसिन्धुं येनाऽन्येऽप्युत्तरन्ति दुरुत्तरम् ॥ १०३ ॥ लोकान्तिकेषु देवेषु विज्ञपथ्य गतेष्विति । प्रारेभे वार्षिकं दानं निर्निदानं जगत्पतिः ॥ १०४ ॥ स्वामिनो ददतो द्रव्यमानीयाऽऽनीय जृम्भकाः । शक्रादिष्टकुबेरेण प्रेरिताः पर्यपूरयन् ॥ १०५ ॥ सांवत्सरिकदानान्ते चतुःषष्ट्याऽपि वासवैः । दीक्षाभिषेको विदधे विधिवञ्जगदीशितुः ॥ १०६ ॥ कृताङ्गराग औमुक्तदिव्यांशुकविभूषणः । आरोहच्छिविकां नाथोऽर्थसिद्धां खार्थसिद्धये ॥ १०७ ॥ आदावुत्क्षिप्तया मर्त्यैरमर्त्यैस्तदनन्तरम् । तया शिबिकया नाथः सहस्राम्रवणं ययौ ॥ १०८ ॥ तत्र चोत्तीर्य तत्याज भगवान् भूषणादिकम् । तदं संदेशे निदधे देवद्वेष्यं च वासवः ॥ १०९ ॥ माघस्य शुक्लद्वादश्यामभीचौ पश्चिमेऽहनि । कृतषष्ठः प्रभुः केशानुर्द्दधे पञ्चमुष्टिना ॥ ११० ॥ शक्रः प्रतीष्यं चिकुरानुत्तरीयाञ्चलेन तान् । क्षणेन गत्वा क्षीरोदेऽक्षिपद् भूयोऽपि चाऽऽगमत् ॥ १११ ॥ सुरासुर-नृणां शक्रस्तुमुलं निषिषेध च । प्रतिपेदे च चारित्रं खामी सामायिकं पठन् ॥ ११२ ॥ मन:पर्ययसंज्ञं चतुर्यं ज्ञानमभूद् विभोः । नारकाणामपि सुखं तदा क्षणमजायत ॥ ११३ ॥ त्यक्त्वाऽङ्गमलवद् राज्यं सहस्रं पृथिवीभुजः । जगृहुः स्वामिना सार्धं प्रव्रज्यां मोहशांतनीम् ॥ ११४ ॥ १ निर्निदानम् आशंसारहितम् । निदानं नाम आकाङ्क्षा आसक्तिः । २ मुक्तं नाम शरीरे यथास्थानं योजितम् । आ समन्ताद् मुक्तं शरीरे धारितं परिहितम् । ३ उत्क्षिप्ता धृता, भाषायां 'धरेली - वहन करेली'। ४ तद्+अंस=तदंस, अंसो नाम स्कन्धः बाहुमूलम् । ५ वृष्यं वस्त्रम् । ६ उभे उत्पाटयामास । ७ प्रतीष्य प्रतिगृह्ण । ८ चिकुराः केशाः । ९ तुयं चतुर्थं मनः पर्यावज्ञानम् । १० मोहशावनीं मोहनीयकर्मनाशनीम् । For Private & Personal Use Only वार्षिकदान अभिनन्दनजिनदीक्षा च www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy